वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 246, कुल 490 में से
संदर्भ में पढ़ें२५० वीरमित्रोदयस्य राजनीतिप्रकाशे
उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम् ॥
उच्चैःस्थानं, कुलादिना महान्तम्, अथवा अत्युच्चोपवे-
शनस्थलम् । घोररूपं भयानकम् ।
स ताननुपरिक्रामेत्सर्वानायुक्तकान् स्वयम् ।
तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः ॥ इति ।
अनुपरिक्रामेत्, यदा अन्यायिभिस्तेऽभियुक्ता अभिभूयन्ते
तदा तान् बलेन पूरयेत् इत्यर्थः । वृत्तं चेष्टितम् । परिणयेत्,
प्रापयेत् । तच्चरैः, नृपचरैः ।
विष्णुधर्मोत्तरे,
ग्रामदोषान् समुत्पन्नान् ग्रामेशः प्रशमं नयेत् ।
अशक्तौ दशपालस्य स तु गत्वा निवेदयेत् ॥
सोऽप्यशक्तः शतेशाय यथावद्विनिवेदयेत् ।
शतेशो विषयेशाय सोऽपि राज्ञे निवेदयेत् ॥
अशक्तौ शक्तिमान् राम स्वयं युक्तिमुपाचरेत् ।
राजा सर्वात्मना कुर्याद्विषये राम रक्षणम् ॥
वित्तमाप्नोति धर्मज्ञ विषयात्स सुरक्षितात् । इति
मनुरप्याह-
ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् ।
शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने ॥
विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् ।
शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम् ॥ इति ।
एतेषां वृत्तिमाह-
स एव,
यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः ।
अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥