सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 244, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 244

२४८ वीरमित्रोदयस्य राजनीतिप्रकाशे
खर्जूरनारिकेराणां वंशस्य कदलस्य च ॥
लवणेन सतोयेन सेको वृद्धिकरः स्मृतः ।
विडङ्गलवणोपेतं मत्स्यमांसं भृगूत्तम ॥
सर्वेषामविशेषेण दोहदं परिकल्पयेत् ।
एवं कृते चारुपलाशपुष्पाः सुगन्धिनो व्याधिविवर्जिताश्च ।
भवन्ति नित्यं तरवः सुरम्याश्चिरायुषः स्वादुफलान्विताश्च॥इति।
इति विष्णुधर्मोत्तरे वृक्षायुर्वेदः ।
अथ राष्ट्रम् ।
तत्र मनुः,
राष्ट्रस्य सङ्ग्रहे नित्यं विधानमिदमाचरेत् ।
सुसङ्गृहीतराष्ट्रो हि पार्थिवः सुखमेधते ॥
सङ्ग्रहः, संरक्षणमात्मीयताकरणं वा ।
द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममवस्थितम् ।
तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य गुप्तये ॥
द्वयोर्ग्रामशतयोस्त्रयाणां पञ्चानां वा ग्रामशतानां मध्ये
गुल्मं पदात्यादिसमूहमावस्थितं कुर्यात्स्थापयेत् । राष्ट्रस्य सङ्ग्रहम्
इति पाठे सङ्ग्रहं रक्षास्थानं, गुल्मं गुल्मसहितम्, अवस्थितं
सत्यशीलपुरुषाधिष्ठितम् । दस्युलाघवगौरवापेक्षयोक्तो विकल्पः।
दुर्गे स्थित एकैकस्मिन् ग्रामे ग्रामसमुदाये वा प्रजापालननियु-
क्तान् कुर्यात् । तदुक्तम्—
विष्णुना,तत्र स्वस्वग्रामाधिपान् कुर्यात् दशाध्यक्षानिति।
मनुरपि,
ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं तथा ।
विंशतीशं शतेशं च सहस्रपतिमेव च ॥ इति ।