सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 243, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 243

विष्णुधर्मोत्तरोक्तवृक्षायुर्वेदः । २४७
तत्रैव,
रङ्गतोयाभिषेचितम् ।
तद्रङ्गपुष्पं भवति यौवने नात्र संशयः ।
मत्स्याम्भसा तु सेकेन दृष्टिर्भवति शाखिनाम् ॥ इति ।
अथैतेषां दोहदानाह—
तत्रैव,
ततः प्राधान्यतो वक्ष्ये द्रुमाणां दोहदान्यहम् ।
मत्स्योदकेन शीतेन आम्राणां सेक इष्यते ॥
मृद्वीकानां तथा कार्यस्तेनैव रिपुसूदन ।
पकासृग्रुधिरं चैव दाडिमानां प्रशस्यते ॥
तुषं देयं च नव्यानां मद्यं च बकुलद्रुमे ।
विशेषात्कामिनीवक्त्रसंसर्गात्तु गुणो भवेत् ॥
प्रशस्तं चाप्यशोकस्य कामिनीपादताडनम्।
शृगालमांसतोयं च नारङ्गाक्षोटयोर्हितम् ॥
मधुपर्ण्युदकं चैव बदराणां प्रशस्यते ।
गन्धोदकं सगोमांसं केतकानां प्रशस्यते ॥
क्षीरसेकेन भवति सप्तपर्णो मनोहरः ।
मांसयूषवसामज्जासेकः कुरवके हितः ॥
पूतिमत्स्याघृतं पूतिकार्पासफलमेव च ।
अरिमेदस्य सेकोऽयं पाटलेषु प्रशस्यते ॥
शृगालमत्स्यमांसाभ्यां चम्पकेषु च वापयेत् ।
पारावतानां क्षीरेण रुधिरेण च शस्यते ॥
कपित्थबिल्वयोः सेकं गुडतोयेन कारयेत् ।
जातीनां मल्लिकायाश्च गन्धतोयेन रञ्जनम् ॥
जपाकुरवजातीनां कूर्ममांसं प्रशस्यते ।