वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 242, कुल 490 में से
संदर्भ में पढ़ें२४६ वीरमित्रोदयस्य राजनीतिप्रकाशे
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ।
परमाशोककदलीजम्बूलकुचदाडिमाः ॥
मङ्गल्याः सुद्रुमा राम रोपणीया गृहेषु वा ।
कृत्वा बहुत्वमेतेषां सेव्याः सर्वेऽप्यनन्तरम् ॥
शाल्मलिं कोविदारं च वर्जयित्वा विभीतकम् ।
दमनं देवदारुं च पलाशं पुष्करं तथा ॥
न विवर्ज्यास्तथा केचिद्देवोद्यानेषु जानता ।
तत्रापि बहुता कार्या मङ्गलानां द्विजोत्तम ॥
सायम्प्रातस्तु घर्मर्तौ शीतकाले दिनान्तरे ।
वर्षाकाले भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥
उत्तमं विंशतिर्हस्ता मध्यमं षोडशायतम् ।
स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् ॥
अभ्यासजातास्तरवः संस्पृशन्तः परस्परम् ।
अव्यक्तमूलमिश्रत्वाद्भ्रवन्ति विफला द्विज ॥ इति ।
एवं रोपितानां द्रुमाणां रोगोत्पत्तौ चिकित्सोक्ता—
तत्रैव,
तेषां व्याधिसमुत्पत्तौ शृणु राम चिकित्सितम् ।
आदौ संशोधनं तेषां किञ्चिच्छस्त्रेण कारयेत् ॥
विडङ्गघृतपङ्काक्तान् सेचयेच्छीतवारिणा ।
फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः ॥
शृतशीतपयःसेकः फलपुष्पाय सर्वदा ।
अविकाऽजशकृच्चूर्णं यवचूर्णं तिलानि च ॥
उदकं गोमयं चेति सप्तरात्रं निधापयेत् ।
उत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः ॥ इति ।
नानारङ्गपुष्पोत्पत्तौ प्रकार उक्तः—