वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 241, कुल 490 में से
संदर्भ में पढ़ेंगृहे दिग्भेदेन रोपणीया वृक्षा उद्यानकरणं च । २४३
के चाशुभा इत्यपेक्षिते—
विष्णुधर्मोत्तरे,
पुष्कर उवाच ।
उत्तरेण शुभः प्लक्षो वटः प्राग्भागवोत्तम ।
उदुम्बरश्च याम्येन सौम्येनाश्वत्थ एव च ॥
एते क्रमेण नेष्यन्ते दक्षिणादिसमुद्भवाः ।
समीपजाताश्च तथा वर्ज्याः कण्टकिनो द्रुमाः ॥ इति ।
उद्यानं कुत्र भागे कर्त्तव्यं कथं वा कर्त्तव्यमित्यपेक्षायाम्-
तत्रैव,
वामभागे तथोद्यानं कुर्याद्वासगृहाच्छुभम् ।
वापयेत्त्रांस्तिलांस्तत्र मृद्दीयात्तांश्च पुष्पितान् ॥
ततस्तु रोपयेद्वृक्षान् प्रयतः सुसमाहितः ।
ततो द्रुममथाभ्यर्च्य ब्राह्मणान् शशिनं तथा ॥
ध्रुवाणि पञ्च वायव्यं हस्तं पुष्यं सवैष्णवम् ।
नक्षत्राणि तथा मूलं शस्यते द्रुमरोपणे ।
उद्यानमजलं राम नाभिरामं यदा तदा ॥
प्रवेशयेन्नदीवाहान् पुष्करिण्यश्च कारयेत् ।
संस्कार्यशुद्धिदा तोयं कूपाः कार्याः प्रयत्नतः ॥
हस्तं मघा तथा मैत्रमाप्यं पुष्यं च वासवम् ।
उत्तरात्रितयं राम तथा पूर्वा च फल्गुनी ॥
जलाशयसमारम्भे प्रशस्तं वारुणं तथा ।
सम्पूज्य वरुणं देवं विष्णुं पर्जन्यमेव च ॥
तर्पयित्वा द्विजान् कामैस्तदारम्भपरो भवेत् ।
अथोद्याने प्रवक्ष्यामि प्रशस्तान् पादपान् द्विज ॥