वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 240, कुल 490 में से
संदर्भ में पढ़ें२४४ वीरमित्रोदयस्य राजनीतिप्रकाशे
पूजितैः परमाचार्यैर्गन्धमाल्यैरलङ्कृते ।
भव भूतिकरी देवि गृहे भार्गवि रम्यताम् ।
अव्यङ्गे चाक्षते पूर्णे मुनेरङ्गिरसः सुते ॥
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कामयाम्यहम् ।
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥
मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ।
गृहप्रवेशेऽपि तथा शिलान्याससमो विधिः ॥
कर्त्तव्यः सकलो राम शिलान्यासविवर्जितः ।
पूजितामरलक्ष्मीकं हुताग्निं चाप्यलङ्कृतम् ॥
पञ्चरङ्गेण सूत्रेण प्रतिबद्धसरं तथा ।
सकलेषु तु कोणेषु दिशासु विदिशासु च ॥
गवाक्षकेषु कर्त्तव्याश्चक्रा रक्षोहणास्तथा ।
सर्वस्यास्य तथा न्यासो मन्त्रै रक्षोहणैर्भवेत् ॥
गोपृष्ठविन्यस्तकरः प्रविशेच्च गृही गृहम् ।
स्वनुलिप्तः सुखी स्रग्वी सपत्नीकस्तथैव च ॥
द्विजपुण्याहघोषेण वीणावेणुरवेण च ।
वन्दिनां च निनादेन पटहानां स्वनेन च ॥
काले शुभे कालविदा प्रदिष्टे सतोरणं पूर्णघटाभिरामम् ।
प्रविश्य कालज्ञसमर्चितानां कृत्वार्चनं तत्र सुरोत्तमानाम् ॥
सम्पूज्य वह्निद्विजपुङ्गवांश्च मङ्गल्यमालभ्य च भोजयित्वा ।
विप्रान्मधुक्षीरघृतोत्कटान्नं सदक्षिणांस्तांश्च तथा विसृज्य ॥
सप्ताहमाग्निं परिचर्य तत्र सम्पूज्य विप्रान् विधिवच्च राम ।
गृहे वसेत्पूजितदेवविप्रे शुचौ सदा सर्वगुणोपपन्ने ॥ इति ।
इति विष्णुधर्मोत्तरेषु वास्तुविद्या ।
एवं गृहादौ निर्मिते गृहस्य कस्मिन् भागे के वृक्षाः शुभाः