सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 95, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 95

८२ विक्रमोर्वशीये
चित्रलेखा—(सस्मितम् ।) वैअस्सेण सगङ्गा तुमं मए पुव्वं जा
चिदव्व्रा । (इति राजानं प्रणम्य निष्क्रान्ता ।)
विदूषकः—दिट्ठिओ मणोरहसिद्धीए वड्ढदि भवं ।
राजा—इमां तावन्मनोरथसिद्धिं पश्य ।
सामन्तमौलिमणिरञ्जितपादपीठ-
मेकातपत्रमवनेर्न तथा प्रभुत्वम् ।
अस्याः सखे चरणयोरहमद्य कान्त
माज्ञाकरत्वमधिगम्य यथा कृतार्थः ॥ १९ ॥
उर्वशी—णैरत्थि मे वाआविहवो अदो अवरं मन्निदुम् ।
राजा—(उर्वशीं हस्तेनावलम्ब्य ।) अहो, अविरुद्धमप्रार्थनमेतदि-
दानीमीप्सितलम्भानाम् । यतः ।
पादास्त एव शशिनः सुखयन्ति गात्रं
बाणास्त एव मदनस्य मनोऽनुकूलाः ।

१ वयस्येन सगङ्गा त्वं मया याचितव्या ।
२ दिष्ट्या मनोरथसिद्ध्या वर्धते भवान् ।
३ नास्ति मे वाग्विभवोऽत उत्तरं मन्त्रयितुम् ।

वयस्येन सगङ्गा त्वं मयेति याचितव्या ॥ विदूषकः । दिष्ट्या मनोरथसिद्ध्या
वर्धते भवान् ॥ सामन्तमौलिइति । सामन्त ...
...
...
...
...