विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 94, कुल 168 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ८१
चित्रलेखा—वेसन्तानन्तरं उण्णसमए भअव सुज्जो भए उव
अरिदव्वो । ता जधा इअ मे पिअसही सग्गस्स ण उकण्ठेदि तहा
वयस्सेण कादव्वम् ।
विदूषक —भोदि, किं वा सग्गे सुमरिदव्वम् । ण तत्थ खाई
यदि ण पीयदि । केवलं अणिमिसेहिं अच्छीहिं मीणदा अव-
म्बीयदि ।
राजा—वयस्य,
अनिर्देश्यसुखं स्वर्गं कथं विस्मारयिष्यते ।
अनन्यनारीसामान्यो दासस्त्वस्या पुरूरवा ॥ १८ ॥
चित्रलेखा—अणुगिहीदम्हि । हला उव्वसि, अकादरा भत्तिभ
विसज्जेहि मम् ।
उर्वशी—(चित्रलेखां परिष्वज्य सकरुणम् ।) सेहि, मा खु म वि
सुमरेसि ।
१ वसन्तानन्तरमुष्णसमये भगवान्सूर्यो मयोपचरितव्यः । तथैवेयं मे
प्रियसखी स्वर्गस्य नोत्कण्ठते तथा वयस्येन कर्तव्यम् ।
२ भवति किं वा स्वर्गे स्मर्तव्यम् । न तत्र खाद्यते न पीयते ।
केवलमनिमिषैरक्षिभिर्मीनकार उप...्यते ।
३ अनुगृहीतास्मि सखि उर्वशि अकातरा भूत्वा विसृजय माम् ।
४ सखि मा खलु मां विस्मरिष्यसि ।
ताम् ॥ अवहितः सावधानः । चित्रलेखा । वसन्तानन्तरमुष्णसमय भग-
वान्सूर्य्यो मयोपचरितव्यः । यस्मिन् भवनीयः । तथैषा मे प्रियसखी स्वर्गस्य
नोत्कण्ठते तथा वयस्येन कर्तव्यम् । अत्रत्यं भार्यायास्सहमुखक्रीडामभिधाय ॥ १८ ॥
ए हाव तोऽयम् ॥ विदूषकः । भवती किं वा स्वर्गे स्मर्तव्यम् । न तत्र
खाद्यते न पीयते । केवलमनिमिषैरक्षिभिर्मत्स्यकारमुपगम्यते । अनिर्देश्यमिति ।
अनिर्देश्यसुखाद्यस्य सुखं यस्याऽसुखमपि या अनन्यनारीसामान्ये मय्यन्यथात्व
इत्यर्थः । १ ॥ चित्रलेखा । अनुगृहीतास्मि । सखि उर्वशि अकादरा
विसृजय माम् । उर्वशी । सखि मा खलु मां विस्मर कदापि चित्रलेखा