विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 96, कुल 168 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ८३
संरम्भरूक्षमिव सुन्दरि यत्प्रदाक्षी-
स्त्वत्संगमेन मम तत्तदिवानुनीतम् ॥ २० ॥
उर्वशी — १अवराद्धाम्हि चिरआरिणा महाराअस्स ।
राजा—सुन्दरि, मा मैवम् ।
यदेवोपनतं दुःखात्सुखं तद्रसवत्तरम् ।
निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥ २१ ॥
विदूषक — २भोदि, सेविदा पदोसरमणीआ चन्दवादा । ता
समओ णु दे गेहप्पवेसस्स ।
राजा—तेन हि सख्या मार्गमादेशय ।
विदूषक — ३इदो इदो भोदी ।
(इति परिक्रामति ।)
राजा—सुन्दरि, इयमिदानीं मे प्रार्थना ।
उर्वशी— ४कीरिसी सा ।
१ अपराद्धास्मि चिररात्राय महाराजस्य ।
२ भवति, सेविताः प्रदोषरमणीयाश्चन्द्रपादाः । तत्समयः खलु ते
गेहप्रवेशस्य ।
३ इत इतो भवती ।
४ कीदृशी सा ।
रोषणदण्डम् । अनुनीतं कृतसान्त्वनमिव ॥ २० ॥ उर्वशी । अपराद्धास्मि चिर-
कालिकं महाराजस्य ॥ यद्येति । यदेव सुखं दुःखात्पीडोत्तरमुपनतं प्राप्तं तद्
रसवत्तरं स्वादुतरं भवति । रसो रागे तथा वीर्ये तिक्तादौ पारदे द्रवे । रेतस्यास्वा-
दने हेम्नि निर्यासेऽमृतरत्नयोः ॥ इति वैजयन्ती । दिवस । तरुच्छायानिर्वाणस्य
सुखाय । तप्तस्य विशेषतोऽधिकसुखदत्यर्थः । निर्वाणं निर्वृतौ मोक्षे इति त्रि-
काण्डी ॥ २१॥ विदूषकः । भवति सेविताः प्रदोषरमणीयाश्चन्द्रपादाः । तत्स-
मयः खलु ते गेहप्रवेशस्य ॥ विदूषकः । इत इतो भवती ॥ उर्वशी । की-