विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 87, कुल 168 में से
संदर्भ में पढ़ें७४ विक्रमोर्वशीये
चित्रलेखा—अत्थि अवरं मुह मन्तियु दे ।
देवी—अज्जउत्त पुरोकिदुअ को वि वदविसेसो मए संपादि-
दव्वो । ता मुहुत्तं उवरोहो सहीअदु ।
राजा—मा मैवम् । अनुग्रहः खलु, नोपरोधः ।
विदूषकः—ईरिसो ण सोत्थिवाअणएहिं दे बहुसो उवरोधो
होदु ।
राजा—किं नामधेयमेतद्देव्या व्रतम् ।
(देवी निपुणिकामवलोकयति ।)
निपुणिका—भट्टा, पिअप्पसाअणं णाम ।
राजा—(देवीं विलोक्य ।) यद्येवम्
अनेन कल्याणि मृणालकोमलं
व्रतेन गात्रं ग्लपयस्यकारणम् ।
प्रसादमाकाङ्क्षति यस्त्वयोत्सुकः
स किं त्वया दासजनः प्रसाद्यते ॥ १३ ॥
उर्वशी—(सवैलक्ष्यस्मितम् ।) मेहंतो खु एदस्स इमस्सिं बहुमाणो।
१ अस्त्यपरं मुखं मन्त्रयितुं ते ।
२ आर्यपुत्रं पुरस्कृत्य कोऽपि व्रतविशेषो मया संपादयितव्यः । तन्मुहूर्तं
मुपरोधः सह्यताम् ।
३ ईदृशो ननु स्वस्तिवाचनैस्तव बहुश उपरोधो भवतु ।
४ ।। प्रियप्रसादनं नाम ।
५ महा-न्खल्वस्यैतस्यां बहुमानः ।
षीति नोग्रसिन्ध्वा ॥ चित्रलेखा । अस्ति अपरं मुख मन्त्रयितु ते ॥ देवी ।
आर्यपुत्रं पुरस्कृत्य कोऽपि व्रतविशेषो मया संपादयितव्य । तन्मुहूर्त्तमुपरोधः सह्य
ताम् ॥ विदूषक । ईदृशो ननु स्वस्तिवाचनकरव बहुश उपरोधो भवतु ॥ निपु
णिका । भर्त्ता प्रियप्रसादनं नाम ॥ अनेनेति । गात्रं शरीरम् । ग्लपयस्य
यङ्गादिविभागडण्डदेईको इतिमिधनोदद । ग्लपयति पीडयति । उत्सुतः उ
त्कण्ठितः ॥ १३ ॥ उर्वशी । महा-न्खल्वस्यैतस्यां बहुमानः ॥ चित्रलेखा ।