सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 67, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 67

५६ विक्रमोर्वशीये
देवी—$^१$दुरागदं दाणिं संवृत्तम् ।
राजा—(जनान्तिकम् ।) वयस्य, किमत्र प्रतिविधानम् ।
विदूषकः—(जनान्तिकम् ।) $^२$लोत्तेणे सूइदस्स कुम्भिलअस्स
अत्थि वा पडिवअणम् ।
राजा—(अपवार्य ।) मूढ, नायं परिहासकालः । (प्रकाशम् ।) नेदं
पत्रं मया सृज्यते । तत्खलु मन्मथपत्रं यदन्वेषणाय ममायमारम्भः ।
देवी—$^३$जुज्जदि अत्तणो सोइग्गं पच्छादेदुम् ।
विदूषकः—$^४$भोदि, तुवरेहि से भोअणम् । पित्तोवसमणेन
सुत्थो होदु ।
देवी—$^५$णिउणिए, सोहणं क्खु बह्मणेण आसासविदो वअस्सो ।
विदूषकः—$^६$णं पेक्ख । आसासविदो वअस्सो चित्तभोअणेण ।
राजा—मूर्ख, बलादपराधििनं मामापादयसि ।
१ दुरागतमिदानीं संवृत्तम् ।
२ लोप्त्रेण सूचितस्य कुम्भीरकस्यास्ति वा प्रतिवचनम् ।
३ युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम् ।
४ भवति, त्वरयस्वास्म भोजनम् । पित्तोपशमनेन स्वस्थो भवतु ।
५ निपुणिके, शोभनं खलु ब्राह्मणेनाश्वासितो वयस्यः ।
६ ननु प्रेक्षस्व । आश्वासितो वयस्यश्चित्रभोजनेन ।
व जायश नाश्च मा याद व$|३$म् ॥ इति सागरोक्त ॥ दर्घा । दुरागतमिदानीं
संवृत्तम् ॥ प्रतोवध्रानं प्रतीकारः ॥ विदूषकः । लोप्त्रेण सूचितस्य । मस्ति
कस्यास्त वा प्रतिवचनम् । लोप्तं चोरितद्रव्याश [त] बलुः । दापी इति भाषायां
प्रसिद्धम् । स्वल्पस्य वचनदन्तम् इति त्रिहाण्डी । कुम्भीरकश्चोरः । कुम्भीरको
गन्ध बन्धकश्चमत्स्यत्सुवः । इति कोषः । २४ । १ विवक्षा पारम्न उज्जाव ॥
दर्घा । युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम् ॥ विदूषकः । भवती
त्वरयस्वास्म भोजनम् । पित्तोपशमनेन स्वस्थो भवतु ॥ दर्घा । निपुणिके शोभनं
खलु ब्राह्मणेनाश्वासितो वयस्यः । वयस्य राशो ॥ विदूषकः । ननु प्रेक्षस्व ।