सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 68, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 68

द्वितीयोऽङ्कः। ५७
देवी—१णत्थि भवदो अवराहो । अह एव्व अवराद्धा । जा
पडिकूलदंसणा भविअ अग्गदो चिट्ठामि । २इदो गमिस्सम् । (इति
कोपं नाटयित्वा प्रस्थिता ।)
राजा—
अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् ।
सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥ २० ॥
(इति पादयोः पतति ।)
देवी—(आत्मगतम् ।) मा खु लहुहिअआ अणुणअं बहु मण्णे ।
किं दु दक्खिण्णकिदपश्चादावस्स भाएमि । (इति राजानमपहाय
सपरिवारा निष्क्रान्ता ।)
विदूषकः—३दिट्ठणट्ठदी विअ अप्पसण्णा गदा देवी । ण
उट्ठेहि ।
राजा—(उत्थाय ।) वयस्य, नेदमुपपन्नम् । पश्य ।
प्रियवचनशतोऽपि योषितां
दयितजनानुगयो रसादृते ।
१ नास्ति भवतोऽपराधः । अहमेवापराद्धा । या प्रतिकूलदर्शना भूत्वा
अग्रतस्तिष्ठामि । इतः गमिष्यामि ।
२ मा खलु लघुहृदया अनुनयं बहु मन्ये । किं तु दाक्षिण्यकृत-
पश्चात्तापस्य बिभेमि ।
३ दृष्टनष्टश्रीरिवानप्रसन्ना गता देवी । ननूत्तिष्ठ ।
आत्मानमेवापराधिनं मन्यमाना देवीति भावः । या प्रतिकूलदर्शना
या प्रतिकूलदर्शना भूत्वा अग्रतस्तिष्ठामि । इतः गमिष्यामि । अपराधी नामे-
ति । संरम्भात् क्रोधात् । विरम उपशमं कुरु । सेव्यो जनश्च स्वातन्त्र्यात् कुपितः । दासो
भृत्यस्तु कथं नु किमुत निरपराधः । सेव्यस्यापराधो नास्तीति भावः । अत एव
निरपराधः कथं न स्यादित्यर्थः । आत्मगतं मनोगतम् । मा खल्वित्यादि
ततः । लघुहृदया लघूभवद्धृदया, अनन्यचित्ता । दाक्षिण्यकृत-
पश्चात्तापस्य बिभेमि । विदूषकः । ३ दृष्टनष्टप्रणया गता देवी । ननूत्तिष्ठ ॥
प्रियवचनशत इति । शिखरिणी वृत्तम् । दयितजनानुगमः दयितजन-