विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 64, कुल 168 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः। ५७
देवी—णत्थि भवदो अवराहो । अह एव्व अवरद्धा । जा
पडिकूलदसणा भविअ अग्गदो चिट्ठामि । इदो गमिस्सम् । (इति
कोपं नाटयित्वा प्रस्थिता ।)
राजा—
अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् ।
सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥ २० ॥
(इति पादयोः पतति ।)
देवी—(आत्मगतम् ।) मा खु लहुहिअआ अणुणअं बहु मण्णे ।
किं दु दक्खिण्णकिदपच्छादावस्स भाएमि । (इति राजानमपहाय
सपरिवारा निष्क्रान्ता ।)
विदूषकः—पाउसणदी विअ अप्पसण्णा गदा देवी । णं
उट्ठेहि ।
राजा—(उत्थाय ।) वयस्य, नेदमुपपन्नम् । पश्य ।
प्रियवचनशतेऽपि योषितां
दयितजनानुनयो रसाहते ।
१ नास्ति भवतोऽपराधः । अहमेवापराद्धा । या प्रतिकूलदर्शना भूत्वा
अग्रतस्तिष्ठामि । इतो गमिष्यामि ।
२ मा खलु लघुहृदया अनुनयं बहु मन्ये । किं तु दाक्षिण्यकृत-
पश्चात्तापस्य बिभेमि ।
३ प्रावृण्नदीवाप्रसन्ना गता देवी । ननूत्तिष्ठ ।
आचरितो वयस्याऽप्रभाजनम्॥देवी॥नास्तिभवतोऽपराधः। अहमेवापराद्धा।
या प्रतिकूलदर्शना भूत्वा अग्रतस्तिष्ठामि । इतो गमिष्यामि। अपराधा नाम-
ति। संरम्भात्क्रोधतः। स्वापराद्धमेव दर्शयति-सेव्यःप्रभुर्भाव्यः जनः कुपितः । कश्चि-
दापराधाऽस्यापि कुपितः शोभत इति भावः । तदस्मत्प्रभुत्वात्त्वन्नीति शोभत इति । तदप्य-
निरपराधः क नु। तस्यापराधानुगुणमेव युक्तं स्यान्न त्वागताऽस्तीति
भावः ॥ २० ॥ देवी। म खलु लघुहृदया अनुनयं बहु मन्ये । किन्तु दाक्षिण्यकृत
पश्चात्तापस्य बिभेमि ॥ विदूषकः । प्रावृण्नदीवाप्रसन्ना गता देवी। ननूत्तिष्ठ ॥
प्रियवचनशत इति । प्रियवचनशतेऽपि योषितां दयितजनानुनयः प्रियजन-