विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 63, कुल 168 में से
संदर्भ में पढ़ें५६ विक्रमोर्वशीये
देवी—१दुग्गदं दाणिं संवृत्तम् ।
राजा—(जनान्तिकम् ।) वयस्य, किमत्र प्रतिविधानम् ।
विदूषक—(जनान्तिकम् ।) २लोप्तेण सुइदस्स कुम्भिलअस्स
अत्थि वा पडिवअणम् ।
राजा—(अपवार्य ।) मूढ, नायं परिहासकालः । (प्रकाशम् ।) नेदं
पत्रं मया मृग्यते । तत्खलु मन्त्रपत्रं यदन्वेषणाय ममायमारम्भः ।
देवी—३जुज्जदि अत्तणो सोहग्गं पच्छादेदुम् ।
विदूषक—४भोदि, तुवरेहि से भोअणम् । पित्तोवसमणेन
सुत्थो होदु ।
देवी—५णिउणिए, सोहणं खु बह्मणेण आसासिदो वअस्सो ।
विदूषक—६ण पेक्ख । आसासिदो वअस्सो चित्तभोअणेण ।
राजा—मूर्ख, बलादपराधीन मामापादयसि ।
१ दुरागतमिदानीं संवृत्तम् ।
२ लोप्त्रेण सूचितस्य कुम्भीरकस्यास्ति वा प्रतिवचनम् ।
३ युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम् ।
४ भवति, त्वरयस्यास्य भोजनम् । पित्तोपशमनेन स्वस्थो भवतु ।
५ निपुणिके, शोभनं खलु ब्राह्मणेनाश्वासितो वयस्यः ।
६ ननु प्रेक्षस्व । आश्वासितो वयस्यश्चित्रभोजनेन ।
च जीर्यत नाध साध्वाह वसनम् ॥ इति सागरोक्तम् ॥ देवी । दुरागतमिदानीं
संवृत्तम् ॥ प्रतिविधानं प्रतीकारः ॥ विदूषकः । लोप्त्रेण सूचितस्य कुम्भीर-
कस्यास्ति वा प्रतिवचनम् । लोप्त्रं चोरितद्रव्यादिभूतं वस्तु । दासी इति भाषायां
प्रसिद्धम् । स्तेयद्रव्यं तु यद्द्रव्यम् इति त्रिकाण्डी । कुम्भीरकश्चोरः । कुम्भीरको
गण्डपदस्तस्कराद्यमात्स्यु च । इति चौरः ॥ युज्यतऽत्र वध्यताम् आरम्भ उद्योगः ॥
देवी । युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम् ॥ विदूषकः । भवति
त्वरयस्यास्य भोजनम् । पित्तोपशमनेन स्वस्थो भवतु ॥ देवी । निपुणिके शोभनं
खलु ब्राह्मणेनाश्वासितो वयस्यः । वयस्यो राजा ॥ विदूषकः । ननु प्रेक्षस्व ।