विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 31, कुल 168 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्क ।
(तत प्रविशति विदूषक ।)
विदूषकः—अविद् अविद् भो , णिमन्तणिओ परमण्णेण
विअ राअरहस्सेण फुट्टमाणो ण सक्णोमि जणइण्णे अइण्जणेण
अत्तणो जीह् धारिदुम् । ता जाव सो राआ धम्मासणगदो इदो
आगच्छइ दाव इमस्सिं विरलजणसंपादे देवच्छन्दअप्यासादे आ
रुहिअ चिट्ठिस्सम् । (परिक्रम्योपविश्य पाणिभ्यां मुख विधाय स्थित ।)
(तत प्रविशति चेटी ।)
चेटी—आणत्तह्नि देवीए कासिराजदुहिदाए जहा—हञ्जे णि-
उणिए, जदो पहुदि भअवदो सुज्जस्स उअत्थाण कटुम पडिणिउत्तो
महाराओ तदो पहुदि सुण्णाहिअओ विअ रुम्मी अदि । ता तुम नि
१ अविदाविद् भो, निमन्त्रणिक परमान्नेनेव राजरहस्येन स्फु-
टन्न शक्नोमि जनाकीर्णेऽकीर्णतनेनात्मनो जिह्वां धारयितुम् । तद्यावत्स
राजा धर्मासनगत इत आयाति तावदेतस्मिन्विरलजनसंपाते देवच्छन्दक
प्रासाद आगम्य स्थास्ये ।
२ आज्ञप्तास्मि देव्या काशिराजदुहित्रा यथा—हञ्जे निपुणिके, यतः
प्रभृति भगवत सूर्यस्योपस्थानं कृत्वा प्रतिनिवृत्तो महाराजस्ततः प्रभृति
शून्यहृदय इव लक्ष्यत । तत्त्वमपि तावदाशयागतवकाजनीसभोक्त
इदानीं विदूषकमुखेनाभिमदवसूचनाय विदूषकप्रवेशमाह—तत इति ।
विदूषकलक्षणं तु— विकृताङ्गवचोवेषैर्हास्यकारी विदूषकः । विश्वनाथकविरा-
जोऽप्याह—कुसुमवसन्ताद्यभिधः कर्मवपुर्वेशभाषाद्यैः । हास्यकर कलहरतिर्वि-
दूषक स्यात्स्वकर्मज्ञः ॥ सहधर्मभोजनात् । 'सागरेऽप्यममदन्—वयस्यश्च
दूषक स एव च विदूषकः । अन्य पुरचरो राज्ञो नर्मसाचिव्य प्रकीर्तित ॥ इति ।
विदूषकः । अविदविद् भो । अरट धुत्तर्यन्नामवदिशविद्भोपदम् । इति
डण्टार । निमन्त्रणिक परमान्नेनव राजरहस्येन स्फुटन्न शक्नोमि जनाकीर्णे
ऽकीर्णेनावमना जिह्वां धारयितुम् । तद्यावत्स राजा धर्मासनगत इत आयाति
तावदेतस्मिन्विरलजनसंपात देवच्छन्दकप्रासाद आगत्वा स्थास्ये । 'परमान्नं
तु पायसम्' इति त्रिकाण्डम् । औधम् इतिवटे कीर्तिसार्य । देवच्छ-
न्दक इति प्रासादनाम ॥ चेटी । आज्ञप्तास्मि देव्या काशिराजदुहित्रा