सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 23, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 23

१८ विक्रमोर्वशीये
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ १० ॥
उर्वशी—हला चित्तलेहे, सहीअणो कहिं क्खु भवे ।
चित्रलेखा—सहि, अभअप्पदाई महाराओ जाणादि ।
राजा—(उर्वशीं विलोक्य ।) महति विषादे वर्तते सखीजनः ।
पश्यतु भवती ।
यदृच्छया त्वं महदप्यपस्मयो
पथि स्थिता सुन्दरि यस्य नेत्रयोः ।
त्वया विना सोऽपि समुत्सुको भवेत्
सखीजनस्ते किमुतार्द्रसौहृदः ॥ ११ ॥
उर्वशी—(आत्मगतम् ।) अमिदं क्खु दे वअणम् । अहव
चन्दादो अमिदं णिग्गदिअं त्ति किं अच्चरिअम् । (प्रकाशम् ।) अदो एव्व मे
पेक्खिदुं तुवरदि हिअअम् ।
१ हला चित्रलेखे, सखीजनः कुत्र खलु भवेत् ।
२ सखि, अभयप्रदायी महाराजो जानाति ।
३ अमृतं खलु ते वचनम् । अथवा चन्द्रादमृतं निर्गतमिति किमत्राश्चर्यम् ।
अत एव मे प्रेक्षितुं त्वरते हृदयम् ।