सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 162, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 162

पञ्चमोऽङ्कः । १३९
रम्भा—अय से अहिसेअसंभारो ।
नारद —उपवेश्यतामयमायुष्मान्भद्रपीठे ।
(रम्भा कुमारं भद्रपीठे उपवेशयति ।)
नारद —(कुमारस्य शिरसि कलशमावर्ज्य ।) रम्भे, निर्वर्त्यतामस्य
शेषो विधिः ।
रम्भा—(यथोक्तं निर्वर्त्य ।) वच्छ, पणम भयवन्दं पिदरो अ ।
(कुमार तथा प्रणमति ।)
नारद —स्वस्ति भवते ।
राजा—कुलधुरंधरो भव ।
उर्वशी—पिदुणो आरादओ होहि ।
(नेपथ्ये वैतालिकद्वयम् ।)
प्रथमः—विजयतां युवराजः ।
अमरमुनिरिवात्रिं सत्रुहन्तेरिवेन्दु-
र्बुध इव शिशिरांशोर्बाणवत्सेव देव ।
भव पितुरनुरूपस्त्वं गुणैर्लोककान्तै-
रतिशयिनि समाप्ता वंश एवाधिपत्ये ॥ २१ ॥
१ अयमस्याभिषेकसंभारः ।
२ वत्स प्रणम भगवन्तं पितरौ च ।
३ पितुराराधको भव ।
स्वाभिषेकसंभारः । संभारो विजयलक्ष्मीसमुचिता सामग्री ॥ भद्रपीठे हेमादिम-
मयासने । भद्रासनलक्षणं चोक्तं देवीपुराणे— इमं च राजनं ताम्रं क्षीरवृक्षमयं
च वा । भद्रासनं प्रकर्तव्यं सापहरुणसमुच्छ्रितम् ॥ सपादरत्नमानं च राज्ञो या
ऽऽह्विषास्तरात् ॥ वाराहसंहितायां च— त्रिविधमध्योत्सेधाह्वयो हस्तं पादाधिको
ऽथदण्डश्च । माण्डलिकेह्यान्तरपितसमस्तराज्यार्थिनां शुभः ॥ इति ॥ रम्भा । वत्स
प्रणम भगवन्तं पितरौ च ॥ उर्वशी । पितुराराधको भव । पितुरस्य वचनानि
भवन्तु इत्यपि क्वचित्पाठः । यथापित्रेतदमुजमुच्यते तत्तदस्य भवत्वित्यर्थः ..
नेपथ्ये । प्रथमो वैतालिकः । अमरमुनिरिति । बोधमो बुधः । एव
इति पाठेऽप्यर्थः स एव । देवो राजा । पुरूरवा इत्यर्थः । राजा गङ्गारको
वि १२