विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 161, कुल 168 में से
संदर्भ में पढ़ें१३८ विक्रमोर्वशीये
राजा—अय विष्टरोऽनुगृह्यताम् ।
(नारदश्चोपविष्टः । सर्वे नारदमनूपविशन्ति ।)
राजा—(सविनयम् ।) भगवन्, किमागमनप्रयोजनम् ।
नारद —राजन्, श्रूयतां महेन्द्रसंदेशः ।
राजा—अवहितोऽस्मि ।
नारदः—प्रभावदर्शी मघवा वनगमनाय कृतबुद्धिं भवन्तमनु-
शास्ति ।
राजा—किमाज्ञापयति ।
नारद —त्रिकालदर्शिभिरादिष्टः सुरासुरविमर्दो भावी । भवांश्च
सांयुगीनः सहायः । तेन न त्वया शस्त्रन्यासः कर्त्तव्यः । इयं चोर्वशी
यावदायुस्तव सहधर्मचारिणी भवत्विति ।
उर्वशी—(अपवार्य ।) सल्लं णिअ हिअआदो अवणीदम् ।
राजा—परमनुगृहीतोऽस्मि परमेश्वरेण ।
नारद —युक्तम् ।
त्वत्कार्यं वासवः कुर्यात्त्वं च तस्येष्टकार्यकृत् ।
सूर्यं संवर्धयत्यग्निर्निशि सूर्यः सतेजसा ॥ २० ॥
(आकाशमवलोक्य ।) रम्भे, उपनीयतां मघोनः संभृतः कुमारस्या-
भिषेकः ।
१ शल्यमिव हृदयादपनीतम् ।
विष्टरं भासनम् । अवसरं तु मुक्त्वा स्वात्मानमपि महीतले इति शुल्कात् ॥
प्रभावगः पश्यति तथाऽऽह ॥ त्रिकालज्ञानांस्त्रिकालविद्भिर्भावी भविष्यात्सुरा-
सुरविमर्दनं देवासुरसङ्ग्रामं भावि २ भविष्यति । संयुगे युद्धे साधुः सांयुगीनः ।
सांयुगीनः रणे साधुः इति त्रिकाण्डः । शस्त्रन्यासः शस्त्रत्यागः । यावदायुषा
वयोऽवम् च उर्वशी । एतन्निव हृदयादपनीतम् । स्वाशायमिति । सः
एष इन्द्रः । इष्टानि कार्याणि करोति तादृक् । अभिप्रायो हि निशि सूर्यमग्नय
स्थितं रात्रिः सूर्यस्तमग्निमंहति ५ ततो प्रैऽग्निः ॥ २० ॥ रम्भा । अयम