विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 145, कुल 168 में से
संदर्भ में पढ़ें१२४ विक्रमोर्वशीये
राजा—किमिदानीं धनुषा । बाणपथातीतं क्रव्यभोजनं ।
तथाहि ।
आभाति मणिविशेषो दूरमिदानीं पतत्रिणा नीतः ।
नक्तमिव लोहिताङ्गः परुषघनच्छेदसंस्पृक्तः ॥ ४ ॥
आर्य लातव्य ।
कञ्चुकी—आज्ञापयतु देवः ।
राजा—मद्वचनादुच्यन्तां नागरिकाः सायं निवासवृक्षाग्रे वि-
धीयतां विहगावधः ।
कञ्चुकी—यथाज्ञापयति देवः । (इति निष्क्रान्तः ।)
विदूषकः—भो, विसमीभवु भव संपदम् । कहिं गदो सो
रवणुकुम्भीलओ भवादो सासणादो मुञ्चिस्सदि ।
(इत्युपविशतः ।)
राजा—वयस्य,
रत्नमिति न मे तस्मिन्मणौ प्रयासो विदूरमोतिशते ।
प्रियया तेनास्मि सरो संगमणीयेन संगमितः ॥ ५ ॥
(ततः प्रविशति सशरं मणिमादाय कञ्चुकी ।)
कञ्चुकी—जयति जयति देवः ।
अनेन निर्भिन्नतनुः स वध्यो ।
रोषेण ते मार्गणतां गतेन
१ भो, विश्रम्यतु भवान्संप्रतम् । कुत्र गतः स रत्नकुम्भीरको भवतः
शासनान्मुच्येत ।
विहगवधः ॥ आभातीति । मणिविशेषः उत्कृष्टो मणिः । लोहिताङ्गो मङ्गलः ।
कान्तिमात्रा महीसुतः इति च सः । परुषघनच्छेदः परिणतमेघखण्डः ॥ ४ ॥
लातव्य इति कञ्चुकितः संज्ञाम् । तच्चामुमुक्ते प्रकृष्टम् ॥ विदूषकः । भो विश्राम्यतु
भवान्संप्रतम् । कुत्र गतः स रत्नकुम्भीरको भवतः शासनान्मुञ्चेत । 'कुम्भी-
रकाः कण्डोलवृक्षकल्पः प्रच्छन्न इति शेषः ॥ रत्नमिति मेति । विदू-
रगतं वर्णशून्यास्तित्वं जीयते । संगमणीयेन तन्नाम्ना । संगमयेन सह संगमितः ॥ ५ ॥
अनेनेति । निर्भिन्नतनुर्विदारितशरीरः । वयमणीयं विहितः । मार्गणतां गतेन