सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 144, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 144

पञ्चमोऽङ्कः । १०३
राजा—पश्याम्येनम् ।
असौ मुखालम्बितहेमसूत्रं
बिभ्रन्मणिं मण्डलशीघ्रचारः ।
अलातचक्रप्रतिमं विहङ्गः
सद्ररागलेखावलयं तनोति ॥ २ ॥
कथय । किं सम्प्रति कर्तव्यम् ।
विदूषक —(सरोषं १) भो, अल एत्थ घिणाए । अवराही
सासणीओ ।
राजा—सम्यगाह भवान् । धनुर्धनुस्तावत् ।
परिजनः—२जं भट्टा आणवेदि । (इति निष्क्रान्तः ।)
राजा—न दृश्यते हि विहगाधमः ।
विदूषकः—३इदोइदो दक्खिणन्तरेण चलिदो सउणिहदाओ ।
राजा—(दृष्ट्वा ।) इदानीं
प्रभापल्लवितेनासौ करोति मणिना खगः ।
अशोकस्तबकेनेव दिङ्मुखस्यावतंसकम् ॥ ३ ॥
यवनी—(धनुर्हस्ता प्रविश्य ४) भट्टा, एदं ससरं चावम् ।
१ भो, अलमत्र घृणया । अपराधी शासनीयः ।
२ यद्भर्ताज्ञापयति ।
३ इत इतो दक्षिणान्तरेण चलितः शकुनिहतकः ।
४ भर्त्त इदं सशरं चापम् ।
हरि पाठः । भ्रमयुक्तेलय मुक्तमथेति पूर्वमेवतन्नियम्यग्रेहम् ॥ अला
विति । मण्डलाकारभ्रमणे शीघ्रं चरो यश्चिरः । अङ्गाङ्ग जगते चन्दु तस्य
चक्रम् । तत्प्रतिमं सादृश्यम् । तस्य मणे रागलेखा तस्या वलयं मण्डलम् ॥२॥
विदूषकः । भो, अलमत्र घृणया । अपराधी शासनीयः ॥ परिजनः ।
यद्भर्ताज्ञापयति ॥ विदूषकः । इत इतो दक्षिणान्तरेण चलितः शकुनिहतकः ॥
प्रभेति । प्रभाया फुल्ला पल्लवितश्च विस्तृतश्च ॥ ३ ॥ अधीऽश्रोऽतिकम् ।
क्रमशोग्रतो याहादी । प्रविष्टेऽ हस्ते चापं यत्नa क्रम्यमतिपम् ई०-