वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 343, कुल 355 में से
संदर्भ में पढ़ें१२४ वेणीसंहारं नाटकं
अर्जुनः—जयत्वार्यः ।
युधिष्ठिरः ( विलोक्य । ) अये, भगवान्पुण्डरीकाक्षो वत्सश्च किरीटी ।
देव, अभिवादये । ( किरीटिनं प्रति ) एह्येहि वत्स, परिष्वजस्व माम् ।
( अर्जुनः प्रणमति । )
युधिष्ठिरः—( वासुदेवं प्रति ) कुतस्तस्य विजयादन्यद्यस्य भगवान्पुण्डरी-
काक्षो नारायणः स्वयं मङ्गलान्याशास्ते ।
कृतगुरुमहदादिक्षोभसंभूतभूति
गुणिनमुदयनाशस्थानहेतुं प्रजानाम् ।
समुदायो येन सः, सानुजः = सावरजः, पाण्डवकुलचन्द्रः = पाण्डवकुले चन्द्र इव ।
एहि = आगच्छ, परिष्वजस्व = आलिङ्गय ।
प्रतीति, कथयतीति शेषः । पुण्डरीकाक्षः=पुण्डरीकं कमलं तद्वदक्षिणी यस्य सः
'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्' इति षच्प्रत्ययः । 'यस्येति च' इतीकारलोपः ।
मङ्गलानि = शुभानि, आशास्ते = इच्छति ।
अन्वयः—( हे ) देव ! कृतगुरुमहदादिक्षोभसम्भूतभूतिम्, गुणिनम्, प्रजानाम्
उदयनाशस्थानहेतुम्, अजम्, अमरम्, अचिन्त्यम्, त्वाम् चिन्तयित्वा, अपि, जगति,
( जनः ) दुःखी, न भवति, किम्, पुनः दृष्ट्वा, ( भविष्यति ! ) । : ४३ ॥
सकलसंसारहेतुभूतस्य नित्यानन्दपरब्रह्मणस्तव चिन्तनेनापि जनो दुःखनिर्मुक्तो
भवति, साक्षात्कारे तु दुःखस्य सम्भावनाऽपि नास्तीत्याह—कृतेति । ( हे ) देव =
संसारचक्रेण क्रीडक ! क्रीडाद्यर्थकदिवधातोः पचादित्वादच्प्रत्यय । कृतगुरुमहदा-
दिक्षोभसम्भूतभूतिम् = कृताः अनित्या ये गुरवः श्रेष्ठाः, कारणत्वादिति भाव । मह-
दादयः महदहङ्कारस्तन्मात्राः प्रकृतिविकृतयः तदुक्तं सांख्यतत्त्वकौमुद्याम्—
महदाद्याः प्रकृतिविकृतयः सप्त इति प्रकृतेर्महांस्ततोऽहङ्कारः, तस्माद्गणश्च
षोडशकः । इति च ।
तेषां क्षोभेण परिणामेन, सम्भूता उत्पन्ना मूर्तिः जगत् यत्र तम्, अथवा कृता
अर्जुन—आप की जय हो ।
युधिष्ठिर—( देखकर ) अये ! कमलोचन भगवान् वासुदेव और वत्स अर्जुन ! भग-
वान् वासुदेव ! साष्टाङ्गपात प्रणाम । ( अर्जुन के प्रति ) प्रिय भ्राता ! आओ आओ मुझसे
मिलो ।
( अर्जुन प्रणाम करते हैं )
युधिष्ठिर—( वासुदेव के प्रति ) उस व्यक्ति के लिए, जिसके मङ्गल की कामना पुराण
पुरुष भगवान् नारायण करते हैं, विजय के अतिरिक्त दूसरा कैसे हो सकता है ।
हे देव, स्वीय परिणाम से उत्पन्न, गुरु = पृथिवी, जल, तेज वायु, आकाश इत्यादि और
महत्तत्त्वादिकों के क्षुभित होने से अर्थात् सृष्टि के अनुगुण प्रवृत्ति से सम्भूत मूर्ति अर्थात्