वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 344, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३२५
अजममरमचिन्त्यं चिन्तयित्वाऽपि न त्वां
भवति जगति दुःखी किं पुनर्दैवं दृष्ट्वा ॥ ४३ ॥
कल्पिता गुरुमहदादिक्षोभसम्भूतमुर्तिः, गुरूणि पञ्चभूतानि, महदादयः, अन्तकरणादि-
तत्त्वानि तेषां क्षोभेण मेलनेन सम्भूता या मूर्तिः शरीरं मा येन तम्, काल्पनिकमेव
ते शरीरम् अतएव 'अरूपमव्ययम्' इत्यपि संगच्छते, शरीरस्य वास्तविकत्वे रूप-
वत्त्वादिनाशितात्त्वान्नोक्ता श्रुतिर्विरुध्येतेति भावः । गुणिनम् = सत्त्वरजस्तमोगुणो-
पाध्यवच्छिन्नम्, मायाशवलितमित्यर्थः । परब्रह्मणो मायासाहाय्येन सृष्टिककरणादिति
भावः । अत एव, प्रजानाम् = जनानाम्, उदयनाशस्थानहेतुम् = उदयः उत्पत्तिः,
नाशः प्रलयः, स्थानं स्थितिः जीवनमित्यर्थः, तेषां हेतुः = उपादानकारणम् । तदुक्तं
तैत्तिरीये—
‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंवि-
शन्ति ।' इति ।
त्वमेव जगतामुत्पत्तिस्थितिविनाशकारणमित्यर्थः । अजम् = अजन्यम्, न तव कदाऽ-
प्युत्पत्तिरिति भावः । तदुक्तं मुण्डके—‘स वाह्याभ्यन्तरो ह्यजः' । इति
कठोपनिषदि — 'न जायते म्रियते वा विपश्चित्' । इति च ।
अमरम् = मृत्युरहितं नित्यमित्यर्थः । तदुक्तं प्रश्नोपनिषदि—'स एषोऽजोऽमृतो
भवति' । इति ।
बृहदारण्यकेऽपि -- 'तेजोमयोऽमृतमयः पुरुषः' । इति ।
त्वमेव परं ब्रह्मेति कथं त्वं जन्यो मृतो वा स्या इति भावः । अचिन्त्यम्=ध्यातु-
मप्यशक्यम्, तव चिन्तामपि कर्तुं न शक्नुवन्ति जना इति भावः । तदुक्तं कठोप-
निषदि—
‘न नरेणावरेण प्रोक्त एष विज्ञेयो, बहुधा चिन्त्यमानः' । इति ।
'नैव वाचा न मनसा, प्राप्तुं शक्यो न चक्षुषा' । इति ।
'नैषा तर्केण मतिरापनेया' । इति च ।
एषा आत्मविषयिणी, आपनेया = प्रापण्या । त्वाम् = परब्रह्मस्वरूपम् । तदुक्तं
भागवते—'कृष्णस्तु भगवान् स्वयम्' । इति ।
चिन्तयित्वा = अध्यात्मयोगाधिगमेन ध्यात्वा यद्यपि पूर्वोक्तश्रुत्या ध्यानविष-
अवतार धारण करने वाले गुणी = सत्त्व, रज, तम इत्यादि तीन प्रकार की उपाधियों से
विशिष्ट संसार के चर और अचर प्राणियों के जन्म, पालन और संहार करने वाले,
अजन्मा, अमर और ध्यान में न आने वाले अर्थात् आकृतिहीन आपका स्मरण करके ही
इस संसार में कोई दुखी नहीं रह सकता और आपका दर्शन हो जाने पर तो कहना ही
क्या है ? ॥ ४३ ॥