वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 341, कुल 355 में से
संदर्भ में पढ़ें३२२ वेणीसंहारं नाटकं
द्रौपदी -- णाह, विसुमरिवम्हि एदं वावारम् । णाहस्स पसादेण पुणो
वि सिक्खिस्सम् । (-नाथ, विस्मृताऽस्म्येतं व्यापारम् । नाथस्य प्रसादेन पुनरपि
शिक्षिष्यामि ।)
( भीमसेनो वेणीं बध्नाति ।)
( नेपथ्ये ।)
महासमरानलदग्धशेषाय स्वस्ति भवतु राजन्यकुलाय ।
क्रोधान्धैर्यस्य मोक्षात्कुरुनरपतिभिः पाण्डुपुत्रैः कृतानि ।
एतम्, व्यापारम् = केशबन्धनरूपक्रियाम् ।
शिक्षिष्यामीति = यद्यपि शिक्षधातुरनुदात्तेतात्मनेपदी तथापि चक्षिङो ङित्करणा-
ज्ज्ञापितया 'अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्' इति परिभाषया परस्मैपदम् । अत
एव शिशुपालवधकाव्ये चतुर्थसर्गे रैवतकगिरिवर्णनपरके-'उदयति विततोर्ध्वरश्मिर-
ज्जावि' ति श्लोके - 'उदयति' इति उत्पूूर्वकादयधातोः परस्य लटः शत्रादेशः साधु-
सङ्गच्छते । केचित्तु 'चान्द्रायस्तु मन्यन्ते सर्वस्मादुभयं पदम्' इति न्यायसुधोक्ते-
श्चान्द्रमते सर्वेभ्यो धातुभ्य उभयपदं भवतीति 'शिक्षिष्यामि' इत्यत्र लुटः स्थाने पर-
स्मैपदमिति वदन्ति । क्वचित्तु-'शिक्षिष्ये' इत्येव पाठो निवेशितः ।
अन्वयः- यस्य, मोक्षात्, क्रोधान्धैः अतुलभुजबलेः, पाण्डुपुत्रैः, कुरुनरपतिभिः,
प्रत्याशम्, पार्थिवान्तःपुराणि, मुक्तकेशानि, कृतानि, सः, अयम्, कुपितयमसखः,
कुरूणाम्, धूमकेतुः, कृष्णायाः, केशपाशः, बद्धः, ( अतः ) प्रजानाम्, निधनम्, विर-
मतु, राज्ञाम्, कुलेभ्यः, स्वस्ति ( अस्तु ) ॥ ४२ ॥
आकाशे देवादिभिरुक्तमाह - क्रोधान्धैरिति । तस्य = केशस्य, मोक्षात् = मुक्तेः,
क्रोधान्धैः = अतिकुपितैः, अत एव द्रोणादीनामपि वधोऽकारीति भावः, अतुलभुज-
बलैः = अतिपराक्रमिभिः, पाण्डुपुत्रैः, कुरुनरपतिभिः = दुर्योधनादिभिः, ( च )
चेन विनापि क्वचित्समुच्चयस्य प्रतीतिर्भवत्येव । प्रत्याशम् = प्रतिदिक्, पार्थिवान्तः-
पुराणि = राज्ञां स्त्र्यगाराणि, मुक्तकेशानि = अबद्धकचानि, कृतानि, स्वामिनां, हननेन
द्रौपदी-नाथ ! इस कार्य को तो भूल ही गई हूँ । स्वामी के प्रसाद से फिर भी
सीख लूँगी ।
( भीमसेन वेणी बाँधते हैं )
( नेपथ्य में )
भीषण समराग्नि में जलकर बचे हुए राजकुलों का कल्याण हो ।
जिसके छूट जाने से क्रोधान्ध पाण्डुपुत्रों के द्वारा, जिन्होंने राजाओं का संहार किया