सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 219, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 219

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १६६
संजयः—तात, अम्ब, अवतरतं स्वैरं रथात् ।
( उभाववतरणं नाटयतः । )
( ततः प्रविशति सब्रीडमुपविष्टो दुर्योधनः । )
संजयः — ( उपसृत्य । ) विजयतां महाराजः । नन्वेष तातोऽम्बया सह
प्राप्तः । किं न पश्यति महाराजः ।
( दुर्योधनो वैलक्ष्यं नाटयति । )
धृतराष्ट्रः -
शल्यानि व्यपनीय कङ्कवदनैरुन्मोचिते कङ्कटे
बद्धेषु व्रणपट्टकेषु शनकैः कर्णे कृतापाश्रयः ।
अवतरनम् = अवतीर्णौ भवतम् युवाम् । स्वैरम् = शनैः ।
सब्रीडम् = सलज्जम् ।
वैलक्ष्यं = लज्जाम् !
अन्वयः - कङ्कटे उन्मोचिते. कङ्कवदनैः शल्यानि व्यपनीय, व्रणपट्टकेषु, शनकैः
बद्धेषु कर्णे. कृतोपाश्रयः निर्जितशत्रूवान् नरपतीन्, लीलया, दूरात्, आलोकयन्,
भवान्, पापेन मया ( हे ) पुत्रक, (त्वया) वेदना, सह्या, इति, न, पृष्टः ॥ १ ॥
शल्यानीति । कङ्कटे = कवचे, उन्मोचिते = शरीराद्विसारिते, कंकवदनैः=कङ्कस्य
लोहपृष्ठनामकपक्षिविशेषस्य वदनं मुखमिव मुखं येषां तैः शल्यनिष्कासकयन्त्र-
विशेषैः, शल्यानि = बाणाग्रशकलानि, व्यपनीय = निःसार्य उद्धृत्येत्यर्थः । व्रण-
पट्टकेषु = व्रणजन्यपीडानाशकौषधिलिप्तवस्त्रेषु, पट्टी इति प्रसिद्धः । शनकैः =
स्थिरेण, 'अव्ययसर्वनाम्नामि' त्यव्ययत्वादकच् प्रत्ययः । बद्धेषु, सत्सु । कर्णे=राधा-
संजय-पिता जी और माता जी ! रथ से धीरे-धीरे उतरिये ।
( दोनों रथ से उतरने का अभिनय करते हैं )
( पुनः लज्जा में पड़े हुए दुर्योधन का प्रवेश )
संजय-( समीप जाकर ) महाराज की विजय हो । यह पिता जी माता जी के साथ
आए हुए हैं । क्या महाराज नहीं देख रहे हैं ?
( दुर्योधन लज्जित हो जाता है )
धृतराष्ट्र -
कवच को अङ्गों से हटा देने पर कङ्क [ गीध ] नामक पक्षी के मुखसदृश मुख वाले
यन्त्रों से बाण की गाँसियों को निकाल कर छतों ( घाव ) पर सावधानी से पट्टी बाँध