वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 218, कुल 355 में से
संदर्भ में पढ़ेंअथ पञ्चमोऽङ्कः
( ततः प्रविशति रथयानेन गान्धारी संजयः धृतराष्ट्रश्च ।)
धृतराष्ट्रः—वत्स संजय, कथय कथय कस्मिन्नुद्देशे कुरुकुलकाननैक-
शेषप्रवालो वत्सो मे दुर्योधनस्तिष्ठति । कच्चिज्जीवति वा न वा ।
गान्धारी—जाद, जइ सच्चं जीववि मे वच्छो ता कधेहि कस्सि देसे
वट्टदि । ( जात, यदि सत्यं जीवति मे वत्सस्तत्कथय कस्मिन्देशे वर्तते ।)
संजयः—नन्वेष महाराज एक एवं न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।
गान्धारी—(सकरुणम् ।) जाद, एआइ त्ति भणासि । किं णु वखु
सम्पंदं भादुसदं से पास्से भविस्सदि । ( जात, एकाकीति भणसि किं नु खलु
साम्प्रतं भ्रातृशतमस्य पार्श्वे भविष्यति ।)
करोति दृष्टं तमसां विनाशं ददाति तुष्टश्च समीहितं तत् ।
मदीयविज्ञानसमृद्धिबीजं भजाम्यहं श्रीगुरुपादयुग्मम् ॥ १ ॥
गान्धारी = दुर्योधनस्य माता,
उद्देशे = स्थाने, कुरुकुलकाननैकशेषप्रवालः = कुरुकुलं काननं वनम् इव तस्मिन्
एकशेषः एकमात्रमवशिष्टः प्रवालः अङ्कुरः सः, वत्सः = पुत्रः ‘वत्सः पुत्रादिर्वर्षयोः ।
तर्णके नोरसि क्लीबम्'इति मेदिनी । कच्चिदिति - कच्चिदितीष्टप्रश्ने प्रयुज्यते ।
'कच्चित्कामप्रवेदने' इत्यमरः । इष्टप्रश्नः कामप्रवेदनम् ।
जात इति-जात इति पुत्रस्थानीयस्य पुत्रस्य वा सम्बोधने प्रयुज्यते ।
न्यग्रोधच्छायायां = वटच्छायायाम् 'न्यग्रोधो बहुपादष्टः' इत्यमरः ।
सञ्जयेन यदुक्तम् एक एव तिष्ठतीति तत्र गान्धारी आह एकाकीति किं
भणसि, भ्रातृशतस्य विनाशात् कथं सद्वितीयस्तिष्ठत्विति भावः ।
( रथ पर बैठकर संजय के साथ धृतराष्ट्र और गान्धारी का प्रवेश )
धृतराष्ट्र-बेटा संजय ! कहो कहो, वत्स दुर्योधन, जो कुरुवंशरूपी अरण्यानी का
एकमात्र बिरवा शेष रह गया है, किस स्थान पर है ? जीवित है अथवा नहीं।
गान्धारी-सुत [ संजय ] ! यदि सत्य ही मेरा बछवा जीवित है तो बतलाओ, वह
किस स्थान में है ?
संजय-यह महाराज [ सामने ] अकेले ही वट की छाया में बैठे हुए हैं।
गान्धारी-(करुणा के साथ) पुत्र ! क्या कहते हो "अकेले ?" क्यों सौ भाई उसके
समीप होंगे ? [ कैसे सम्भव हैं ] ।