सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 220, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 220

२०० वेणीसंहारं नाटकं
दूरान्निर्जितशत्रवान्नरपतीनालोकयंल्लीलया,
सह्या पुत्रक वेदनेति न मया पापेन पृष्टो भवान् ॥ १ ॥
( धृतराष्ट्र गान्धारी च स्पर्शेनोपेत्यालिङ्गतः । )
गान्धारी—बच्च, अदिगाढप्पहारवेअणापज्जा उलस्य अम्हेसु सण्णि-
हिदेसु वि ण प्पसरदि दे वाणी । ( वत्स, अतिगाढप्रहारवेदनापर्याकुलस्यास्मासु
संनिहितेष्वपि न प्रसरति ते वाणी । )
धृतराष्ट्रः—वत्स दुर्योधन, किमश्रुतपूर्वः संप्रति मय्यप्ययमव्याहारः ।
सुते, कृतापाश्रयः = कृतः अपाश्रयः आधारः येन सः, अपशब्देन यतो दुष्टाश्रयः कृतः
अतस्त्वेदृशी दशा सञ्जातेति ध्वनितम् । निर्जितशात्रवान् = विजितशत्रून्, 'शात्रव'
इति स्वार्थेऽण् प्रत्ययः । लीलया = तिरस्कारेण, आलोकयन् = पश्यन्, भवान्,
अस्य पृष्ट इत्यनेनान्वयः पापेन = पापवता, सुतशतवधहेतुत्वेन पापवत्त्वम् । मया =
धृतराष्ट्रेण, न पृष्टः किं न पृष्ट ? इत्याह— सह्येति । पुत्रक = हे अनुकम्पितपुत्र,
दुःखित्वादनुकम्पार्ह इति भावः । वेदना = दुःखम् सह्या = ह्य = सहनयोग्या इति ।
पृष्ट इत्यस्येदं मुख्यं कर्म भवच्छब्दश्च गौणकर्म, गौणे कर्मणि दुहादेरित्यभियुक्तोक्त्या
गौणकर्मणि प्रत्ययाद् भवच्छन्दात्प्रथमा । सति सहायकादौ तव दुःखन्निवृत्तावपि
मम पुत्रवधजन्यदुःखस्य मत्त्वान्न मया सह्य किन्तु त्वयैवेति भावः । अत्र यदुक्तं
युद्धादित्यादि तत्वमित्यन्तं तद्युक्तं दुःखन्निवृत्तिकारणोपन्यासवैयर्थ्यात्तेरिति
मैथिलाः । शार्दूलविक्रीडितं छन्दः ॥ १ ॥
अतिगाढप्रहारवेदनापर्याकुलस्य = अतिगाढं भृशं यः प्रहारः तेन या वेदना
दुःखं तया तथा समन्तात् आकुलस्य, ते = दुर्योधनस्य, अस्मासु, सन्निहितेषु = समीप-
स्थेषु, अपि, वाणी न प्रसरति = बहिरागच्छति ।
अव्याहारः = अनुक्तिः, अवचनमित्यर्थः । 'व्याहार उक्तिलपितम्'त्यमरः ।
चुकने पर कर्ण पर अवलम्बित होकर अर्थात् कर्ण का आश्रय लेकर शत्रुओं पर विजय प्राप्त
करनेवाले राजाओं को प्रेमपूर्वक नेत्रों से देखते हुए 'हे बेटा ! क्या व्यथा सहन करने
योग्य है ? इस प्रकार मुझ पापी से पूछे नहीं गए ॥ १ ॥
( धृतराष्ट्र और गान्धारी, टटोलते टटोलते समीप आकर [दुर्योधन का] आलिङ्गन करते हैं ।]
गान्धारी — अत्यधिक आघात की व्यथा से व्याकुल तुम्हारे मुख से हमलोगों के समीप
में रहने पर भी शब्द नहीं निकल रहा है ।
धृतराष्ट्र — पुत्र दुर्योधन ! क्या मेरे होते हुए भी यह आज अभूतपूर्व मौन !