सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य वा

संस्कृतटीका-भाषाटीकासमेत । ( १०५ )
पूर्वता, फल, अर्थवाद, और उपपत्ति । ग्रन्थान्तरमें भी लिखा-
है—“पूर्वोक्त छः प्रकारके लिङ्ग तात्पर्यार्थके निश्चायक
होते हैं” ॥ ८९ ॥
तत्र प्रकरणप्रतिपाद्यस्यार्थस्य तदाद्यंतयोरुपा-
दानं उपक्रमोपसंहारौ । यथा छान्दोग्ये षष्ठे प्रपा
ठके प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुनः “एकमे-
वाद्वितीयम्” इत्यादौ“ ऐतदात्म्यमिदं सर्वम्” इत्य
न्तेचप्रतिपादनम् । प्रकरणप्रतिपाद्यस्य वस्तुनः
तन्मध्ये पौनः पुन्येन प्रतिपादनमभ्यासः। यथा त-
त्रैवाद्वितीयवस्तुनो मध्ये तत्त्वमसीति नवकृत्वः
प्रतिपादनम् । प्रकरणप्रतिपाद्यस्य वस्तुनः प्रमा-
णान्तरेणाविषयीकरणमपूर्वत्वम् । यथा तत्रैवाद्धि
तीयवस्तुनो मानान्तराविषयीकरणम् । फलं तु
प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य वा
तत्र तत्र श्रूयमाणं प्रयोजनम्। यथा तत्रैव “आचा-
र्यवान् पुरुषो वेद, तस्य तावदेव चिरं यावन्न वि-
मोक्षे, अथ सम्पत्स्ये” इत्यद्वितीयवस्तुज्ञानस्य
तत्प्राप्तिप्रयोजनं श्रूयते । प्रकरणप्रतिपाद्यस्य तत्र
तत्र प्रशंसनमर्थवादः । यथा तत्रैव उत तमादेश-
मप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं
विज्ञातमित्यद्वितीयवस्तुप्रशंसनम् । प्रकरणप्रति-
पाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्तिः उपपत्तिः।

( १०६ ) वेदान्तसार ।
यथा तत्रैव “यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृ-
न्मयं विज्ञातं स्यात् वाचारम्भणं विकारोनामधे-
यं मृत्तिकेत्येव सत्यम्” इत्यादावद्वितीयवस्तुसा-
धने विकारस्य वाचारम्भणमात्रत्वे युक्तिः
श्रूयते ॥ ९० ॥
( सं० टी० ) उपक्रमोपसंहारौ तावद्दर्शयति । तत्रप्रक-
रणप्रतिपाद्यस्येति । तदुदाहृत्य दर्शयति । तथेति । एकमे-
वाद्वितीयमित्युपक्रम्य ऐतदात्म्यमिदं सर्वमिति प्रतिपादनमु-
पक्रमोपसंहारावित्यर्थः । अभ्यासस्य लक्षणमाह । पौनःपुन्ये
नेति । अत्रापि श्रुतिमुदाहरति । यथेति अपूर्वत्वस्य लक्ष-
णमाह । प्रमाणान्तरेति । “तं त्वौपनिषदं पृच्छामि” इत्यादिश्रुति-
भिरुपनिषन्मात्रवेद्यत्वप्रतिपादनाद्ब्रह्मणोऽपूर्वत्वमित्यर्थः अथवा
स्वप्रकाशत्वेन स्वव्यवहारे स्वातिरिक्तप्रमाणानपेक्षत्वात् ब्र-
ह्मणोपूर्वत्वमित्यर्थः । क्रमप्राप्तस्य फलस्य लक्षणमाह फलं
त्विति । अत्रानुरूपमुदाहरणमाह । आचार्यवानित्यादिश्रवणा-
दिसाधनानांब्रह्मात्मैकत्वविज्ञानं प्रयोजनं ब्रह्मज्ञानस्य तु त-
त्प्राप्तिः फलम् “ब्रह्मविद् ब्रह्मैव भवति।तरति शोकमात्मवित्”
इत्यादिश्रुतेरित्यर्थः । पंचमलिंगस्याप्यर्थवादस्य लक्षणमा-
ह । प्रशंसनमिति । प्रकरणप्रतिपाद्याद्वितीयब्रह्मस्वरूपस्ताव
द्वाक्यमर्थवाद इत्यर्थः । अत्रापि श्रुतिमाह । उततमादेशमप्रा-
क्ष्यइत्यादि “येनाश्रुतं श्रुतं भवति” येन सकलप्रपंचाधिष्ठानब्रह्म-
स्वरूपश्रवणेनाश्रुतं प्रपंचजातमपि श्रुतं भवति येन ब्रह्मज्ञाने-

संस्कृतटीका-भाषाटीकासमेत । ( १०७ )
नाज्ञातं सर्वं जगत् ज्ञातं भवति येन ब्रह्मसाक्षात्कारेणासा-
क्षात्कृतं साक्षात्कृतं भवति ब्रह्मणः सर्वतः संप्लुतोदकस्थानीय-
त्वादित्यर्थः । अवशिष्टाया उपपत्तेर्लक्षणमाह । प्रकरणेति ।
तामुदाहरति । यथेति । मृद्विकारेषु घटादिषु विकारनाम-
धेययोर्वाचारंभणमात्रत्वेन तथामृन्मयत्वमेवावशिष्यते ना-
न्यत्तथा चिद्विवर्तस्य प्रपञ्चस्य गिरिनदीसमुद्रात्मकविकारना-
मधेययोर्वाचारंभणमात्रत्वाच्चिन्मात्रमेवावशिष्यते रज्जुविव-
र्तस्य सर्पस्य रज्जुमात्रावशेषवदित्यर्थः ॥ ९० ॥
(भा०टी०) जिस प्रकरणमें जो वस्तु प्रतिपादन करने-
के योग्य हा उस प्रकरणमें आदिसे लेकर अन्त पर्य्यन्त उसी
वस्तुका प्रतिपादन करना उपक्रमोपसंहार कहाताहै। जैसाकि
छान्दोग्य के षष्ठ अध्याय की आदिमें (एकमेवाद्वितीयं ब्रह्म)
“अद्वितीय ब्रह्मही एकहै”और अन्तमें भी “यह आत्माही ज-
गन्मय है”इस प्रकार प्रकरणका प्रतिपाद्य वस्तु अद्वितीय
ब्रह्मका ही प्रतिपादन कियाहै। इसी प्रकार जिस प्रकरणमें जो
वस्तु प्रतिपादन करनेके योग्यहै उसी वस्तुका वारम्वार प्रति-
पादन करना अभ्यास कहाता है। छान्दोग्यके षष्ठाध्यायमें ही
जिस प्रकार “तत्त्वमसि” इस वाक्यद्वारा अद्वितीय ब्रह्मका
नौ ९ वार प्रतिपादन कियाहै । जिस प्रकरणमें जो वस्तु प्रति-
पादन करने योग्य हो उस वस्तुके प्रमाणसे अतिरिक्त प्रमाण-
के विषयको छोडकर उसी वस्तुके प्रतिपादन करनेको अ-
पूर्वता कहते हैं। उसी षष्ठाध्यायमें ही केवल उपनिषदोंके प्र-