सामग्री पर जाएँ
सर्वकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 106, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 106

( १०६ ) वेदान्तसार ।
यथा तत्रैव “यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृ-
न्मयं विज्ञातं स्यात् वाचारम्भणं विकारोनामधे-
यं मृत्तिकेत्येव सत्यम्” इत्यादावद्वितीयवस्तुसा-
धने विकारस्य वाचारम्भणमात्रत्वे युक्तिः
श्रूयते ॥ ९० ॥
( सं० टी० ) उपक्रमोपसंहारौ तावद्दर्शयति । तत्रप्रक-
रणप्रतिपाद्यस्येति । तदुदाहृत्य दर्शयति । तथेति । एकमे-
वाद्वितीयमित्युपक्रम्य ऐतदात्म्यमिदं सर्वमिति प्रतिपादनमु-
पक्रमोपसंहारावित्यर्थः । अभ्यासस्य लक्षणमाह । पौनःपुन्ये
नेति । अत्रापि श्रुतिमुदाहरति । यथेति अपूर्वत्वस्य लक्ष-
णमाह । प्रमाणान्तरेति । “तं त्वौपनिषदं पृच्छामि” इत्यादिश्रुति-
भिरुपनिषन्मात्रवेद्यत्वप्रतिपादनाद्ब्रह्मणोऽपूर्वत्वमित्यर्थः अथवा
स्वप्रकाशत्वेन स्वव्यवहारे स्वातिरिक्तप्रमाणानपेक्षत्वात् ब्र-
ह्मणोपूर्वत्वमित्यर्थः । क्रमप्राप्तस्य फलस्य लक्षणमाह फलं
त्विति । अत्रानुरूपमुदाहरणमाह । आचार्यवानित्यादिश्रवणा-
दिसाधनानांब्रह्मात्मैकत्वविज्ञानं प्रयोजनं ब्रह्मज्ञानस्य तु त-
त्प्राप्तिः फलम् “ब्रह्मविद् ब्रह्मैव भवति।तरति शोकमात्मवित्”
इत्यादिश्रुतेरित्यर्थः । पंचमलिंगस्याप्यर्थवादस्य लक्षणमा-
ह । प्रशंसनमिति । प्रकरणप्रतिपाद्याद्वितीयब्रह्मस्वरूपस्ताव
द्वाक्यमर्थवाद इत्यर्थः । अत्रापि श्रुतिमाह । उततमादेशमप्रा-
क्ष्यइत्यादि “येनाश्रुतं श्रुतं भवति” येन सकलप्रपंचाधिष्ठानब्रह्म-
स्वरूपश्रवणेनाश्रुतं प्रपंचजातमपि श्रुतं भवति येन ब्रह्मज्ञाने-