सामग्री पर जाएँ
सर्वकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 74, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 74

( ७४ ) वेदान्तसार ।
कारं वक्तुमारभते । अपवादो नामेति । असंगोदासीने पर-
मात्मवस्तुनि तद्विवर्त्तावस्तुभूताज्ञानादिमिथ्याप्रपंचस्य चिद्व-
स्तुमात्रावशेषतयाऽवस्थानमेवापवाद इति वक्तुं प्रथमं लौ-
किकदृष्टांतमाह।रज्जुइति।रज्जुस्वरूपापरित्यागेन सर्पाकारेण
भासमानस्य रज्जुविवर्त्तस्यापवादो नाशो नामाधिष्ठानरज्जुमा-
त्रतयाऽवस्थानवच्चिद्विवर्त्तस्याज्ञानादिप्रपंचस्य अपवादो ना-
शो नामाचिन्मात्रत्वेनावस्थानमित्यर्थः।अत्र यथास्वरूपेणाव-
स्थितस्य वस्तुनोऽन्यथाभावो द्विधाभवति परिणामभावो विव-
र्त्तभावश्चेति तत्र परिणामभावो नाम वस्तुनो यथार्थतः स्वस्व-
रूपं परित्यज्य स्वरूपांतरापत्तिः यथा दुग्धमेव स्वस्वरूपं परि-
त्यज्य दध्याकारेण परिणमते । विवर्त्तभावस्तु वस्तुतः स्व-
रूपापरित्यागेन स्वरूपांतरेण मिथ्याप्रतीतिः । यथा रज्जुः
स्वरूपापरित्यागेन सर्पाकारेण मिथ्या प्रतिभासते । अत्र वेदां-
ते ब्रह्मणि प्रपंचभानस्य परिणामभावो नांगीक्रियते दुग्धा-
दिवद्ब्रह्मणो विकारित्वप्रसंगादनित्यत्वादिदोषापत्तेः । विवर्त्त-
भावांगीकारे तु नायं दोषः, ब्रह्मणि प्रपंचभानस्य मिथ्यात्वेन
विकारित्वाभावात्।तदुक्तम्"अधिष्ठानावशेषो हि नाशः कल्पि
तवस्तुनः”इति। तस्माच्चिद्विवर्त्तस्य प्रपंचस्य चिन्मात्रावशेषत-
यावस्थानमेवापवाद इति भावः । अस्मिन्नर्थे ग्रंथांतरसंवादं
दर्शयति । तदुक्तमिति ॥ ७२ ॥
( भा०टी० ) अब अपवादन्याय दिखाते हैं। रज्जुमें स-
र्पका भ्रम होकर जिस समय वहभ्रम नष्ट होजाता है उस स-