सामग्री पर जाएँ
सर्वकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 37, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 37

संस्कृतटीका-भाषाटीकासमेत । ( ३७ )
निमित्तं स्वोपाधिप्रधानतया उपादानञ्च भवति
यथा लूता तन्तुकार्य्यम्प्रति स्वप्रधानतया निमि-
त्तं स्वशरीरप्रधानतयोपादानं च भवति ॥ ३८ ॥
( सं०टी० ) उपादानत्वेन च कार्यकारणयोरभेदेन प्रपंच-
स्यापि चैतन्यरूपत्वप्रसंगादनित्यत्वं न स्यादित्याशंक्य जड-
प्रपंचं प्रत्यात्मनः चैतन्यप्राधान्येन निमित्तत्वं स्वाज्ञानप्राधा-
न्येनोपादानत्वं च संभवतीत्याह । शक्तिद्वयवदिति । यथा-
यस्कांतसन्निधाने जडमयं लोहं चेष्टते तथा चैतन्यसन्निधाने
जडमज्ञानं चेष्टते इत्यज्ञानविकारं प्रति चैतन्यस्य निमित्तत्वं
जडाकाशादिकार्यं प्रति मायायाः साक्षादुपादानत्वेन माया-
विन ईश्वरस्यापि परंपरयोपचारादुपादानत्वं न विरुध्यत इत्य-
र्थः। तदुक्तं चैतन्यस्य निमित्तकारणत्वे कार्यानुप्रवेशो न स्यादि-
ति। तन्न । कारणस्य कार्यानुप्रवेशनियमस्योपादानकारणविष-
यत्वेननिमित्तकारणविषयत्वाभावात् ‘तत्सृष्ट्वा’ इत्यादिश्रुतेरप्यु
पादानकारणपरत्वात्।यदप्युक्तं आत्मन उपादानकारणत्वे प्रपं
चस्यानित्यत्वं न स्यादिति तदपि न । तस्य परिणामविषयत्वेन
विवर्त्तविषयत्वाभावात्प्रपंचस्य ब्रह्मविवर्तत्वाद्विवर्तत्वं च स्व-
स्वरूपापरित्यागेन स्वरूपांतरप्रदर्शकत्वं। यथा रज्ज्ववच्छिन्नचै
तन्यनिष्ठाज्ञानस्यरज्जुस्वरूपापरित्यागेन सर्पादिस্বরূপांतरप्रद-
र्शकत्वं तथेश्वरचैतन्यनिष्ठाज्ञानशक्तेरपि चैतन्यस्वस्वरूपापरि
त्यागेन आकाशादिस्वरूपांतराकारेण प्रदर्शकत्वं। एतावताका-
शादिप्रपंचस्य नित्यत्वं न संभवति।अज्ञानस्यमिथ्यारूपत्वेन त-