वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
: wait, the top is a dot, bottom is a comma: ';'.
Line 10:
"सिद्धान्तिनैयायिका, मीमांसका वेदान्तिनश्च ।"
Line 12:
"तदर्थमुद्भावयन्ति अंशानाक्षेपांर्हान् तथापि"
Wait, look at "अंशानाक्षेपांर्हान्":
Is that an anusvara on 'पा'?
Wait, the repha is on 'हा': 'र्हा'. Before 'र्हा', there is a small dot above 'पा': 'पांर्हान्' or is it just the repha's tail?
The repha starts above 'हा' and curves left. Sometimes that curve looks like a dot. But let's look: "अंशानाक्षेपार्हान्" (अंशान् + आक्षेपार्हान् -> अंशाननाक्षेपार्हान्? No, "अंशानाक्षेपार्हान्").
Line 16:
"सिद्धान्तित्वे उपक्षतं कोटिप्रकोटयः सम्यग् विस्तरेण"
Wait, is it "उपक्षतं" or "उपेक्ष्य"?
Let's read: 'उ' 'प' 'क' '्' 'ष' 'त' 'ं' -> "उपक्षतं" or "उपक्षिताः"?
Wait: "सिद्धान्तित्वे उपक्षतं कोटिप्रकोटयः" or "उपक्षिप्तं"?
Wait
[पृष्ठ १]
वेदपौरुषेयत्वविमर्शः ।
'वेदापौरुषेयत्वपरीक्षणप्रसङ्गे' कश्चिज्जल्पति—
"सन्ति हि विश्वस्य पुस्तकालयेषु विविधानि पुस्तकानि ।
तान्यखिलान्यपि पौरुषेयाणि पुरुषरचितानि मन्यन्ते । परं वेदादिधर्म-
ग्रन्थानां विषयेऽन्यदेव मतमुपलभ्यते । ख्रिष्टीयानां मते यथा 'बाइवि-
ल'स्य, यवनानां मते यथा 'कुरान'स्य, पारसीकानाञ्च मते यथा
'जेन्दावस्था'यास्तथैव हिन्दूनां मते वेदाना मपौरुषेयत्वमीश्वरीयज्ञानत्व-
ञ्चाभ्युपगम्यते । वेदादिग्रन्थानामपौरुषेयत्वप्रश्नोऽतीव महत्त्वपूर्णः ।
यतो हि तेषामपौरुषेयत्वपक्ष एव स्वतः प्रामाण्यं सम्भवति । यदि
नाम ते पौरुषेयाः स्युस्तर्हि तेषां प्रामाण्यमपि परत एवाभ्युपगतं
स्यान्नतु स्वतस्तेषां पुरुषदोषाशङ्काशून्यत्वाभावात् । तत्र विचारणीयोऽयं
विषयो यद् वेदादिग्रन्थानामपौरुषेयत्वं सम्भवति न वा ? अपौरुषेयत्व-
पक्षेऽपि अपौरुषेयत्वेन किं नाम विवक्षितं स्यात् ? वेदानाम्पौरुषेयत्व-
परीक्षा मुखेनावान्येषामपि परीक्षा सुकरेति स्थालीपुलाकन्यायेन
वेदानाम्पौरुषेयत्वपरीक्षा ऽत्र प्रस्तूयत' इति ।
तन्न; यतः अर्थातथात्वं प्रमाणानामप्रामाण्यम् । अर्थतथात्वं तु प्रामा-
ण्यम् । तच्च अन्यानपेक्षत्वात् स्वत इति । तेन पौरुषेयाणामपि प्रामाण्य-
स्वतस्त्वमेव । पुरुषाश्रितभ्रमादिदोषाशङ्कया तु अप्रामाण्यं शंक्यते
तत्सिद्धौ अप्रामाण्यम्, तदसिद्धौ तु अनपोहितं प्रामाण्यस्वतस्त्वं
तिष्ठत्येव । तेन अपौरुषेयत्वमूलकं प्रामाण्यस्वतस्त्वमिति परास्तम् ।
अत एव प्रत्यक्षानुमानादीनामपि प्रामाण्यस्वतस्त्वमेव ।
यदुक्तं 'वेदा अपौरुषेया न तु पौरुषेया इति भारतीयविदुषां
प्राचीनपरम्पराप्राप्तं मतम् । यजुर्वेदस्य पुरुषसूक्ते परमेश्वरादेव
वेदानामुत्पत्तिः श्रूयते—
'तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥'
[पृष्ठ २]
वेदपौरुषेयत्व-विमर्शः १७५
इति (यजुर्वेदे ३१।७) । परमेश्वरोऽपि यद्यप्यस्मिन्सूक्ते पुरुषशब्दे-
नैव व्यपदिष्टः, परं तस्य कर्मफलोपभोगोपनतशरीरसम्बन्धाभावान्न
शरीरधारि जीववत पुरुषशब्दाभिधेयत्वं सम्भवति । पौरुषेय शब्देन
चात्र जीवरचितत्वमेवाभिप्रेतम् । अतो वेदाः परमेश्वररचिता अपि
अपौरुषेया एवेति अपौरुषेयवादिनां विचारसरणिः ।"
तन्न; वस्तुतस्तु ईश्वररचितस्यापि पौरुषेयत्वमेव । अत एव सर्वेषां
भारतीयविदुषां वेदा अपौरुषेया इति न मतम् । नैयायिकवैशेषिकादिभिः
वेदानां पौरुषेयत्वस्यैवाभ्युपगमान् । अत एव तन्मतरीत्या वेदानां
प्रामाण्यस्वतस्त्वमपि नास्त्येव, ईश्वरस्य आप्तत्वेन कारणगुणसापेक्षतयैव
वेदानां प्रामाण्याभ्युपगमात् । अत एव पौरुषेय शब्देन जीवरचितत्वमेव
इत्यपि न सङ्गतम्, ईश्वररचितत्वस्यापि पौरुषेयत्वानपायात्, अपौरुषे-
यत्ववादिनां रीत्या तु 'तस्मान् यज्ञात् सर्वहुतः' इत्यादिश्रुत्या
परमेश्वरात् वेदानां सम्प्रदायप्रवर्तनरूप एव उत्सर्गः नित्यानां अन्या-
दृशस्य उत्सर्गस्य असम्भवदुक्तिकत्वात् ।
यदुक्तं परत्र विचारणीयमस्माभिर्यद् वेदानाम्पौरुषेयत्वेन किं
विवक्षितम् ? कथं नाम च तेषामपौरुषेयत्वं सामञ्जस्यमुपेयात्, वेदः
कथमीश्वरविरचिताः स्युः ? किं शब्दरूपाणां वेदानाम्पि विरचनमीश्व-
रेणैव कृतम ? वेदवाक्यान्यपि लौकिकवाक्यवत् पदसमूहरूपाण्येव
पदानि पुनरक्षरसमूहरूपाणि । कथं तर्हि वाक्यरूपाणां मन्त्राणामीश्वर-
रचितत्वं सूपपाद्यम् ? किमीश्वरेण वेदानां लेखनं कृतम् ? किंवा तेन
तेषां श्रावणं कृतम् ? तत्र न तावत् प्रथमः पक्षस्तकेसहः, ईश्वरस्य
पत्रमस्यादिरहितत्वेन हस्तपादादिशून्यत्वेन च लेखनासम्भवात् । न
द्वितीयः, तस्याशरीरित्वेन वर्णोच्चारणोपयोगिकण्ठताल्र्वाादिरहितत्वात् ।
तत् कथं परमेश्वरे वेदानां रचना कृतेति नो जानोमहे वयम्, इति ।
तन्न; पूर्वमीमांसकरीत्या वेदानां नित्यत्वेन रचनानपेक्षत्वात् ।
तन्मतरीत्या वेदानां वर्णाः पदानि वाक्यानि च नित्यान्येव । उत्तरमी-
मांसकानां रीत्या वर्णाः प्रलयपर्यन्तावस्थायित्वेन नित्याः । पौर्वापर्य-
भाञ्जि पदानि वाक्यानि च तथाविधान्येव । सृष्ट्यारम्भे तु
३७६ वेदस्वरूप विमर्श
परमेश्वरेण तानि पूर्वपूर्वसर्गानुपूर्वीसापेक्षतया आविर्भाव्यन्ते ।
नैयायिकादितीत्या तु वर्णादीनामनित्यत्वेऽपि पूर्वपूर्वकल्पीयानुपूर्वी-
सव्यपेक्षतयैव ईश्वरेण तानि निर्मियन्ते ।
न चेश्वरस्य कण्ठतालवाद्यभावेन वर्णवाक्याद्युच्चारणमसम्भवदु-
क्तिकामिति वाच्यम् ; लीलया परमेश्वरस्य विग्रहवत्त्वोपपत्त्या तदुपपत्तेः।
यथा वा श्रोत्रपादादिरहितस्य श्रवणगमनादिकं तत्तच्छक्तिमत्वेन
ईश्वरस्योपपद्यते, तथैवोच्चारणमपि नासम्भावि । 'अपाणिपादो जवनो
गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः' इत्यादि श्रुतेः । अन्यथा निविग्रहस्य
शरीरादिविचित्रप्रपञ्चनिर्मातृत्वमपि शङ्कनीयं स्यात् ।
यत्तूक्तं निपुणोऽपि पुरुषः स्वस्कन्धारोहणेऽसमर्थः, तथैव वेदाना-
मीश्वररचितत्वे वेदः स्वयं प्रमाणं भवितुं नार्हति' इति ।
तत्तच्छम् ; स्वपरप्रकाशकानां सूर्यादिभावानां बहुलमुपलब्धेः ।
यत्तु “वेदानाम्पौरुषेयत्वं सिषाधयिषता सायणाचार्येण स्वरचिता-
याम् 'ऋग्वेदभाष्यभूमिकायां, तेषां पौरुषेयत्वखण्डने स्वीया समस्ता
प्रतिभा प्रदर्शिता । परं नासौ वेदानां पौरुषेयत्वं प्रत्याख्यातुं सम-
र्थोऽभूत् । पूर्वपक्षोत्थापितस्य 'अनित्यदर्शनाच्च' (जै० १।१।२८)
इत्यस्य तर्कस्य सायणाचार्येण कृतं खण्डनं सर्वथैव असन्तोषास्पदम् ।
वेदेष्वनित्यानां पदार्थानां दर्शनान्न तेषां नित्यत्वमभ्युपगन्तुं शक्यते
इति पूर्वपक्षाभिप्रायः । अस्य खण्डनं चिकीर्षता सायणाचार्येण प्रतिपादितं
यद् वेदेष्वनित्यानां पदार्थानां वर्णनं न क्वचिदप्युपलभ्यते । यत्र चानित्य-
द्रव्याणां वर्णनं प्रतिभाति, तत्रान्य एव कश्चन गूढार्थोऽनुसन्धेयः ।
तथथा-'बबरः प्रवाहे ष्कारामयत्' इत्यत्र प्रवहणपुत्रस्य बबर नामकस्य
पुरुषस्य वर्णनं प्रतीयते परं विचारप्रहितचेतसा विज्ञायतेऽस्माभिर्यदत्र
बबरध्वनियुक्तस्य प्रकर्षेण वहनशीलस्य वायोरेव वर्णनम् न तु कस्यचित्
पुरुषस्येति ।
किन्तु सायणाचार्यप्रदर्शितयं व्याख्याप्रणाली न विदुषां सन्तोषकारिणी ।
स्वयं सायणाचार्येणाप्येषा प्रणाली मन्त्राणां व्याख्यानावसरेऽनेकशो गत्य-
भावादुपेक्षिता । तथथा-ऋग्वेदस्य प्रथममण्डले 'सोमानं स्वरणं कृणुहि
वेदपौरुषेयत्व-विमर्शः ३७७
ब्रह्मणस्पते । कक्षोवन्तं य औशिजः' (ऋ० सं० १ अ० ५ सूक्तम् १८)
अस्य मन्त्रस्य व्याख्यानावसरे उशिक्-पुत्रस्य कक्षीवन्नामकस्य
ऋषेर्वर्णनं स्वीकृतं सायणाचार्येण । किञ्च ऋग्वेदस्य तृतीयमण्डले
कीकटनाम्नो जनपदस्य, प्रमगन्दनाम्नो राज्ञः, नैचाशाखनाम्नो नगरस्य
च वर्णनमभ्युपगतम् । अत्र प्रमगन्दस्य, कीकटस्य, नैचाशाखस्य च
किं तात्पर्यं ग्रहीतव्यमिति तु न प्रदर्शितं तेन विद्वद्वरेण ।
एवमुच्चावचैरभिप्रायैर्मन्त्रदृष्टयो भवन्ति' (नि० ७।३) 'हर्षशोक-
निन्दाप्रशंसादिना मन्त्राणां द्रष्टारोभ वन्ति' ( इति तत्रैव व्याख्याने
दुर्गाचार्यः) । तास्त्रिविधाः परोक्षकृताः, प्रत्यक्षकृताः, आध्यात्मिक्य-
श्चेति । परोक्षकृता ऋचः सर्वाभिर्नामविभक्तिभिः प्रयुज्यन्ते, प्रथम-
पुरुषैश्चाख्यातस्य । यथा-'इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रमिद्गा-
धिनो' इति ।
त्वमिति चैतेन सर्वनाम्ना 'त्वमिन्द्र वलादधि विन इन्द्र मृधौ जहि,
कुसिकाश्चेतयध्वम्' । शपथाभिशापयोरुदाहरणम्-'अद्यामुरोय यदि यातु
धानो अस्मि (ऋ० सं० ७।१०४।१५) राक्षस इत्यभियुक्तः। सोऽनया
ऋचा शपं प्रतिपेदे । परश्चाभिशापात् । अथापि परिदेवना-'सुदेवो
अद्य प्रपतेदमावृत् परावतं परमां गन्तवा उ । अधाशयीत निर्ऋते
रुपस्थेऽधैनं वृका रभसासो अद्युः ॥” (ऋ० सं० १०।९५।१४)
पुरूरवस आर्षम् ।
निन्दा-'मोघमन्नं विन्दते' (ऋ० सं० १०।११७।६)
प्रशंसा-'भोजाद्याश्वं सम्मृजन्त्याशु' भोजायास्ते कन्या शुम्भ-
माना । भोजस्येदं पुष्करिणीव वेश्म परिष्कृतं देव माने व चित्रम् ।।
(ऋ० सं० १०।१०७।१०) द्यूतनिन्दा कृषिशंसा-'अक्षैर्मादीव्यः
कृषिमित्कृषस्व वित्ते रमस्व बहुमन्यमानः । तत्र गावः कितव तत्र जाया
तन्मे विचष्टे सविताय मर्यः ॥' (ऋ० सं० १०।३४।१३)
अत्र सर्वत्रेतिहासस्य वक्तृविशेषस्य च प्रतीयमानेत्वेऽपि सुखाव-
बोधार्थारख्यायिका रूपत्वेन नेतिहासत्वं न वा पुरुषविशेषवक्तृत्वम्
किन्तु तत्तद्रूपधारिण्याः श्रुतेरेव वक्तृत्वम् ।
[पृष्ठ ३७८]
'त्रितं कूपेऽवहितमेतत्सूक्तं प्रतिबभौ' (नि० ४।६) तच्च सूक्तम्—
'इषिरेण ते मनसा सुतस्य भक्षीमहि पित्यस्येव रायः।' (ऋ० सं०
८।४८।७)
'रमध्वं मे वचसे सोम्याय ऋतावरी रूपमुहूर्त्तमेवैः । प्रसिन्धु-
मच्छा बृहतीमनीषा वस्युरह्ने कुशिकस्य सूनुः ।। (ऋ० सं० ३।३३। )
लिङ्गानुसरेणास्य सूक्तस्य नदीस्तुतौ विनियोगः । कुशिकसूनोः प्रथित-
प्रभावस्य वक्तृत्वे नापि स्तुतिगौरवबोधन एव तात्पर्यम्, रामस्येश्वर-
त्वकथनेन रामेश्वरशिवमाहात्म्यप्रख्यानवत्, कुशिकसूनुकर्तृकत्वा-
त्स्तुतेर्वाशिष्टयम् । न च व्यक्तिविशेषाभावे तद्वैशिष्टयमेव कुतः-
सिद्धयेत् ? व्यक्तिमत्त्वे चेतिहाससिद्धिरिति वाच्यम्, मीमांसकानां जातौ
शक्त्यङ्गीकारेण कल्पभेदेन व्यक्तिभेदमङ्गीकृत्य कौशिकत्ववसिष्ठत्वादि-
जातिमाश्रित्य सेनापतिप्राड्विवाकादिवत् वसिष्ठादिवद्विशेषाम्युप-
गमेन वा व्यक्तिविशेषतद्विशेषयोरेवाङ्गीकारेऽपि शब्दार्थसम्बन्ध-
स्यौत्पत्तिकत्वोपपत्त्या पौरुषेयत्वानोपत्तेः ।
न च केवलमेतेषामेव परन्त्वनेकेषां पुरुषाणामृषीणां जनपदानां
नगराणां पर्वतानां नदीनाञ्च वर्णनं वेदेषु बहुशः समुपलभ्यते ।
तद्यथा— 'अग्नि पूर्वेभिऋषिभिरीड्यो नूतनैरुत' (ऋ० १।१।२)
इत्येष मन्त्रः पूर्वान्नूतनान् च ऋषीन् वर्णयति । कण्वः कक्षीवान्त्सुमीढो
अगस्त्यः' (अथ० १८।३।१५) इत्यस्मिन् मन्त्रे कण्वस्य, विश्वामित्रस्य,
वसिष्ठस्य, भरद्वाजस्य, कश्यपस्य, वामदेवस्य, गोतमस्य ऋषेर्नामानि
श्रूयन्ते । यजुर्वेदस्य पञ्चमाध्याये उर्वश्यास्यायुरसि पुरूरवा असि (यजु०
५।२) इत्यत्र उर्वश्या पुरूरवसश्च वर्णनमुपलभ्यते । अम्बे अम्बिके
ऽम्बालिके न मां नयति कश्चन (यजु० २३।१८) इत्यत्र अम्बादीनां
महाभारतोपवर्णितानां कन्यकानां नामानि दृश्यन्ते । एवमेव नहुषस्य
ययातेस्तस्य यदु-तुरु-द्रुह्यादीनां पञ्चपुत्राणां च वर्णनं यदिन्द्राग्नीयदधु
तुर्वशेषु यद् द्रुह्येष्वनुषु पूरुषु स्थ (ऋ० १।१०८।८) इत्यत्र समुपलभ्यते ।
ऋग्वेदस्य दशममण्डले शन्तनोः देवापेश्च वर्णनं निरुक्तकारेण
यास्कमुनिनापि स्वीकृतम् (नि अ० २, पा० ३) । तस्मिन्नेव मण्डले
[पृष्ठ ३]
इमं मे गङ्गे यमुने सरस्वति (ऋ० १०।७५।५) इत्यत्र गङ्गादीनां
सप्तसिन्धूनामपि वर्णनमुपलभ्यते ।
एवं सत्यप्येतेष्वनेकेषु वर्णनेषु को नाम मेधावी वेदेष्वनित्यद्रव्या-
णां वर्णनं नानुमन्येत । यद्यपि कैश्चित् विद्वद्भिर्वेदेषूपलभ्यमानानां
गङ्गादिपदानां व्याख्यानमन्यरूपेणैव क्रियते । परमेतादृशं व्याख्यानं
न विदुषां बुद्धिसन्तोषं जनयति" इति ।
तन्न; तस्यानेकधा शक्यसमर्थनत्वात् । तथा हि उर्वश्यादिशब्दाः
जातिवाचकाः, उर्वश्यादिपदार्थानामनित्यत्वेऽपि तत्सजातीनां नित्यत्वेन
नित्येषु वेदेषु तद्वर्णनं सङ्गच्छते एव । अत एव । औत्पत्तिकस्तु शब्दस्या-
र्येन सम्बन्ध' इत्यादि सूत्रं सङ्गच्छते । सेनापत्यादिशब्दवत् स्थानवाचका
वा वैदिका शब्दाः । स्थानानि च प्रवाहरूपेण नित्यान्येव । घटनास्तु
सुखबोधार्था आख्यायिका रूपा एव । न तु वृत्तमात्रपर्यवसायिन्यः
निष्फलत्वात् । फलवन्निश्चितार्थविबोधकत्वेनैव वेदानां प्रामाण्याभ्युपग-
मात् तेनानित्यपदार्थवर्णनं स्वार्थपर्यवसायित्वेन वेदेषु नास्त्येवेति
सायणमतं सम्यगेव, 'यत्परः शब्दः स शब्दार्थः' इति शास्त्रतात्पर्यविदां
डिण्डिमघोषात् ।
आख्यायिकारूपाणां मन्त्राणां ब्राह्मणानाञ्च आख्यायिकारूपार्थ-
वर्णने अवान्तरतात्पर्याभ्युपगमेऽपि कैमर्थ्यापेक्षायां विधिनिषेधाद्यङ्गत्वेन
स्तुतिनिन्दारूपेऽर्थे एव पर्यवसानम् । अत एव शब्द इति चेन्नातः
प्रभवात् प्रत्यक्षानुमानाभ्याम् 'अत एव च नित्यत्वम्' इत्यादिभिः सूत्रैः
बादरायणेनायमेवार्थः समर्थितः । तत्तत्कथार्थीनां मन्त्रार्थवादानां
प्रमाणान्तरविरुद्धेऽर्थे गुणवादत्वं प्रमाणान्तरसिद्धेऽर्थेऽनुवादत्वम् तद-
विरुद्धे तदसिद्धे वार्थे भूतार्थवादत्वमभ्युपगतम् । सर्वत्र च एषु पक्षेषु
वेदापौरुषेयत्वनित्यत्वादिकमक्षुण्णमेव । अनित्यार्थवर्णने तात्पर्या-
भावस्य समत्वात् ।
'अकारि त इन्द्र गोतमेभिः (ऋ० सं० १।६३।९) इति मन्त्रस्यापि
मरुत्वतीयशस्त्रे विनियोगात् स्तुतावेव तात्पर्यम् । अत्रापि गोतम-
गोत्रोत्पन्नैर्ऋषिभिः सम्बन्धश्च स्तुतेर्माहात्म्यबोधः । नात्रापि नाम-
Here is the line-by-line transcription of both pages from the image:
[पृष्ठ १८०]
निर्देशेन पौरुषेयत्वं शक्यसमर्थनं' वेदशब्दानां घटनापूर्वकत्वाभावेऽपि
घटनानां वेदपूर्वकत्वं तु न विरुद्धम् । तेन वैदिकशब्दानुसारेण
क्वचित्कल्पे प्रतिकल्पं वा गोतमस्य तद्गोत्रोत्पन्नानामृषीणां तद्विशिष्टस्य
सत्त्वेऽपि न दोषः । तच्चोक्तमेव 'शब्दानुसारिण्यो भवन्त्यस्तु घटना
न वार्यन्ते ।' तेनैव तदंश इति वृत्ताभ्युपगमेऽपि न दोषः । अपौरुषेय-
त्वस्याव्याहतत्वात् । एवमेव परुच्छेपपुत्रेणानानतेन दृष्टस्य 'कारुरहं
ततो भिषक्' (ऋ० सं० ९।११२।३ इत्यादि मन्त्रस्य सोमश्च्योतनाङ्ग-
त्वेन तत्रैव विनियोगात् न स्वार्थे तात्पर्यम् । 'यत्परः शब्दः स शब्दार्थ'
इति न्यायात् । अत्र स्तोमानां कर्ता कारुः, तस्य पुत्रस्तु यज्ञस्य श्रद्धा
३८२ वेदस्वरूप-विमर्श
पेयत्वं साधयितुं प्रदर्शितस्य हेतोः साध्यसमहेत्वाभासरूपत्वान्न साध्य-
-साधने शक्तिः ।'
तदपि तुच्छम्; सूत्रभाष्यादि-तात्पर्याऽनभिज्ञानात् । तथा हि
सम्प्रदायाविच्छेदे सति अस्मर्यमाणकर्तृकत्वेन सिद्धस्यैव अपौ-
रुषेयत्वस्य उपोद्वलनायैव एतदुक्तिः । अपूर्वसाध्यसाधनभावबोध-
कत्वेनापि तदुपोद्वलनम् ।
न च ज्योतिष्टोम-स्वर्गयोः साध्य-साधनभाव मनभ्युपगच्छतः
तदकिञ्चित्करमिति वाच्यम्; तदभ्युपगन्तॄन् प्रत्येव तत्साधनात्
अनेके पौरुषेयत्ववादिनः ज्योतिष्टोमस्वर्गयोः साध्यसाधनभावमभ्यु-
पगच्छन्ति अपौरुषेयत्वं ईश्वरकर्तृकत्वं च वेदानां नाभ्युपगच्छन्ति तान्
प्रति ज्योतिष्टोमस्वर्गयोः साध्यसाधनज्ञानपूर्वकः विनियोगो न
[
यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:
[बायाँ पृष्ठ]
३८४ वेदस्वरूप-विमर्श
सम्बन्धग्रहमन्तरा शाब्दबोधः । यथा--धूम-धूमध्वजयोः सम्बन्धे स्वा-
भाविके सत्यपि व्याप्तिज्ञानमन्तरा न धूमेन धूमध्वजावबोधः तथैव
सम्बन्धग्रहमन्तरा पित्रादिशब्दैः तदर्थावगमोऽपि न भवतीति युक्तमेव ।
गौतमवात्स्यायनादयस्तु वेदपौरुषेयत्ववादिनः न शब्दनित्यत्वमपि
अभ्युपगच्छन्ति कुतस्तरां सम्बन्धनित्यत्वम् ? पूर्वोत्तरमीमांसकास्तु
वर्णपदयोरिव वेदवाक्यानामपि नित्यत्वमभ्युपगच्छन्ति सुतरां तन्मत-
रीत्या सम्बन्धनित्यत्वमपि सम्भवत्येव । अर्थव्यक्तीनामनित्यत्वेऽपि
तत्तज्जातीनां नित्यत्वेन तन्निर्वाहात् । तथापि गौतमादीनां वेदानामी-
श्वरकर्तृकत्वमभिमतमेव । उदयनाचार्याः न्यायमञ्जरीकाराश्च वेदाना-
[L
३८६ वेदपौरुषेयत्वविमर्शः
किन्तु असाधव एव वाचकाः। साधवश्चासाधुस्मरणद्वारा बोधका-
इति मतिर्भवति ।
पुरा यथा अनृतादिभिरसङ्कीर्णा वागासीत् । तथा सर्वैरपभ्रंशैर-
सङ्कीर्णा पश्चात् अनृतादिभिरिवापभ्रंशैरपि सङ्कीर्णा जाता । तत एव
व्यवकीर्णा दैवीवाक् अपभ्रंशपङ्कमलिनीकृता । अनित्यदर्शिनामत्र बुद्धि-
विपर्ययो जातः साधूनां धर्महेतुत्वमजानताम् । ते तु मल्लसमयादि
सदृशीं साधुव्यवस्थां मन्यन्ते । ते साधूनां शब्दानां समूहं प्राकृतं
प्रकृतौ भवमाचक्षते । विकारश्च पश्चात् सम्भिन्नबुद्धिभिः पुरुषैः
स्वरसंस्कारादिभिर्निर्णयते । परन्तु येषां पुरा कल्पो नास्ति न वा दैवी
वागसङ्कीर्णासीत् तेषामपि गम्यागम्यादिकल्पव्यवस्थावत् साध्वसाधुव्य-
वस्था शिष्टैरविच्छेदेन स्मर्यते ।
३८८ वेदार्थपारिजातविमर्शः
तस्या नित्यत्वेन सर्वदा सत्त्वेऽपि न सर्वदार्थबोधापत्तिः, वर्णो-
च्चारणेनाभिव्यक्ताया एवार्थबोधजनकत्वात् । अयमेव जातिस्फोट-
वादोऽपि । 'अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृतः।'
यथा 'अयं घटः', 'अयं घटः', इत्यनुगतप्रतीत्या घटत्वं जातिरङ्गीक्रियते
तथैव शुक-सारिका-मनुष्यादि-प्रयुक्तेषु प्रतीयमानवैलक्षण्येषु भिन्नेषु
घटशब्देषु 'अयं घटशब्द' इत्यनुगतप्रतीत्या घटशब्दत्वं जातिरिति
स्वीक्रियते ।
ननु घटशब्दे गुणत्व-शब्दत्व-घटशब्दत्व-जातीनां सत्त्वात् घटशब्दत्वे
कथं शक्त्याश्रयत्वमिति चेन्न, घटे द्रव्यत्व-पृथिवीत्व-घटत्व-जातीनां
सत्त्वेऽपि घटत्वस्यैव शक्तत्ववत् घटशब्दत्वस्यैव शक्तत्वव्यवस्थापनात् ।
यद्यपि घटावयवैर्घटावयविद्रव्यवत् क्रमजन्मवद्भिः क्षणिकैर्युग-
पत्कालैर्वर्णैरवयवैरवयवस्थितैर्व्यवस्थितं शब्दान्तरं नारब्धुं शक्यमिति घट-
त्वजातेः क आश्रयः स्यात् ? न च शब्दत्वजातिवत् घटशब्दत्वजातिः
प्रत्येकवर्णपरिसमाप्ता, तथात्वे घकारादिष्वव्युच्चारितेषु घटशब्दत्व-
प्रतीत्यापत्तेः, द्वितीयादिवर्णवैयर्थ्यापत्तेश्च । तथापि कर्मत्वजात्युपलक्ष्कि-
तेषु क्रमविशेषयुक्तेषु पूर्वापरोद्भूतेषु कर्मसु भ्रमणत्वोत्क्षेपणादि-
जातिवत् घटशब्दत्वजातिः सिद्ध्येव । यद्यपि तत्रापि पूर्वं कर्म, ततो
विभागः, ततः पूर्वसंयोगनाशः, तत उत्तरसंयोगः, ततः कर्मनाशः, ततः
कर्मान्तरम्, कर्मवति द्रव्ये च पूर्वकर्मणि संयोगः, ततः कर्मनाशः,
ततः कर्मान्तरम्, कर्मवति द्रव्ये च पूर्वकर्मण्यविनष्टे सति न कर्मान्तरम्
कर्मणोः सहानवस्थानात् । अतः कर्मान्तरसहितैः कर्मविशेषैरवयविस्था-
नीयं कर्मान्तरं नारब्धुं शक्यमिति क्व भ्रमणत्वादि जातिः स्यात् ? तथापि
उत्क्षिपति, भ्रमतीति भिन्नप्रत्ययभ्रमाजनककर्माणि उत्क्षेपणकर्मापेक्षया
वैलक्षण्यदर्शनात् भिन्नानि कर्माणि प्रत्यवयवं भ्रमणत्वाश्रयत्वं प्रति-
पद्यमानान्यपि प्रत्येकं कर्मदर्शनवेलायामुत्क्षेपणत्वाश्रयकर्मपेक्षया भेदम-
प्रतिपद्यमानान्यपि इदं कर्मोत्क्षेपणत्वाभिव्यञ्जकं भ्रमणत्वाभिव्यञ्जकं
वेति निर्धारयितुमशक्यत्वेऽपि यद्देशविशेपे संयोगविशेषान् जनयन्ति,
अपेक्षाबुद्ध्या विषयीकृतानि क्रमानुवृत्तिं जनयन्तो दृश्यन्ते । तथा
वेदस्वरूप-विमर्षे ३८९
पूर्वपूर्वकर्मप्रत्यक्षाहितसंस्कारसहितेन चरमकर्मप्रत्यक्षेण भ्रमणत्व-
मुत्क्षेपणत्वं वा जातिरभिव्यज्यते इति वैशेषिकाभ्युपगमः । तथैव
घकारादयो घटशब्दस्याश्रयत्वं प्रतिपद्यमाना घन-घटक-बकाराद् भेदम्-
प्रतिपद्यमाना घटशब्दत्वमनभिव्यञ्जयन्तोऽपि तदुत्तरोत्तरवर्णोपलम्भेन
अपेक्षाबुद्ध्या विषयीकृताः क्रमानुवृत्तिं जनयन्ति तदा पूर्वपूर्ववर्णप्रत्यक्षा-
हितसंस्कारसहितेन चरमवर्णप्रत्यक्षेण पूर्वमगृहीता व्यक्तं गृहीता
घटशब्दत्वरूपा जातिः संस्कृते अन्तःकरणे व्यज्यते ।
तदेवाह्तं श्लोकवार्तिके—
'कण्ठताल्वादिसंयोगविभागक्रमपूर्वकम् ।
ध्वनीनामानुपूर्व्यं स्याज्जात्या चोभयनित्यता ॥
यथैव भ्रमणादीनां भागैर्जात्या च लक्षितैः ।
क्रमानुवृत्तिरेवं स्यात्ताल्वादिक्कनिभर्णभाक् ॥'
वाक्यपदीयरीत्यापि शब्दार्थसम्बन्धानां नित्यतैव—
'नित्याः शब्दार्थसम्बन्धास्तत्राम्नाता महर्षिभिः ।
सूत्राणां सानुमन्त्राणां भाष्याणाञ्च प्रणेतृभिः ॥'
(वा० प० ब्र० का० २३)
तत्र केषाञ्चिद्ररीत्या आकृतिनित्यत्वान्नित्यः शब्दः । आकृतिप्र-
युक्तञ्चेदं शास्त्रम् । आकृतिरत्र जातिर्नावयवसन्रिवेशविशेषः । तन्मते
शब्दस्य गुणत्वेन निरवयवत्वात् ।
शब्दार्थसम्बन्धानामनित्यत्वे पुरुषाणां स्वातन्त्र्ये शब्दार्थ-
सम्बन्धाः स्वेच्छयाऽन्यथापि कृता भवेयुः । तस्मात्—
शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम् ॥
यथा अर्थजातयः घटत्वादयः शब्दजातिबोध्याः । यथा वा अर्थ-
जातीनां शक्यत्वम् शब्दजातीनाञ्च शक्तत्वम् इति ।
केचित्तु अनेकव्यक्त्विन्यङ्ग्यां नित्यां शब्दव्यक्तिं मन्यन्ते । शब्द-
व्यक्तिगतस्तु कैश्चिद्वर्णभेदोऽभ्युपगम्यते ।
जातेर्नित्यत्वेन तदाश्रये शब्देऽपि नित्यत्वव्यवहारः । तदुक्तम्—
'आकृतिनित्यत्वान्नित्यः शब्दः' । नित्येषु शब्देषु कूटस्थैरविचालिभिर्वर्णै-
र्भवितव्यम् ।
[वाम पृष्ठ]
वेदपौरुषेयत्वविमर्शः
'सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः।
एकदेशविकारे हि नित्यत्वं नोपपद्यते ॥'
शब्दानित्यत्ववादिमतेऽपि अनादिवृद्धव्यवहारपारम्पर्याविच्छेदेन
शब्दव्यवहारस्य व्यवस्थितत्वात् शब्दानां नित्यत्वम् ।
न्यायवार्तिककारा अपि नित्या वर्णा नित्या वेदा इति च सम्प्रदाया-
विच्छेदात् नित्या पृथिवी, नित्याः पर्वताः इतिवत् । घटशब्दत्वादिजात-
योश्च टत्वाद्यर्थानां बोधकाः ।
अन्येषां रीत्या नष्टविद्यमानयोरव्यवहितोत्तरत्वस्य वक्तुमशक्य-
त्वेन पूर्वापरीभावरूपक्रमविशेषस्य ज्ञानासम्भव इति पूर्वोक्तरीत्या
अन्त्यवर्णानुभवोद्बुद्धसंस्कारेण युगपत्संस्कारोद्बोध इति नियमाभावेन
विपरीतक्रमेण संस्कारोद्बोधे सरो रसः, नदी दीन इति विपरीत-
क्रमापत्तौ प्रत्येकमन्वयार्थबोधापत्तेः । तस्मादनेकध्वनिव्यङ्ग्या
३९२ वेदस्वरूपविमर्शः
'समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः क्रियते
शब्देनैवार्थोऽभिधेयो नापशब्देन, एवं क्रियमाणमभ्युदयकारिभवतीति ।
महाभाष्ये च आगमात् व्याकरणात् सिद्धाः साधवः शब्दाः धर्मसाधनम्,
विपरीतास्त्वनिष्टसाधनम् । 'तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः,
तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः,
इति श्रुत्या असाधूनां शब्दाना मधर्म साधनत्वबोधनात् आगमविहितेषु
यागादिषु निषिद्धेषु हिंसावृतवदनादिषु धर्माधर्मसाधनत्वस्याविप्रतिपन्न-
त्वात् ।
शब्दकृतकत्वपक्षेऽपि अनादौ संसारे अप्रवृत्तशब्दव्यवहारस्य
कालस्यासत्त्वान् प्रवाह्नित्यता भवत्येव । यथा मीमांसकरीत्या अर्कः,
अश्वः, अर्थः, आदौ पदभेदेऽपि अवर्ण
line 21:
Line 20: '...धर्माय भवति । यथार्थानृत'
Wait, line 20 end has: 'यथार्थानृत' - wait, is there a hyphen? It's just 'यथार्थानृत'.
Line 21: 'मन्यथाऽवस्थितस्यान्यथावचनम् प्रत्यवायाय तथा शब्दानृतमरूपं वाच-')
Wait, let's look at line 21:
'मन्यथाऽवस्थितस्यान्यथावचनम्'?
Look at the characters:
'म' 'न्य' 'था' 'व' 'स्थि' 'त' 'स्या' 'न्य' 'था' 'व' 'च' 'न' 'म्'
There is an avagraha? 'मन्यथाऽवस्थित...' or 'मन्यथावस्थित...'?
Looks like 'मन्यथाऽवस्थितस्यान्यथावचनम्'.
Wait, before it: 'यथार्थानृत'? No, 'यथा ह्यनृत-'?
Look at line 20 end:
य - थ - ा - र्था - नृ - त:
Is that 'यथार्थानृत'? Or 'यथा ह्यनृत-'?
Let's zoom in on line 20 end:
'य' 'था' 'र्था' - wait, is there a repha?
'यथा ह्य
३९६ वेदार्थपारिजातविमर्शः
सम्भवेऽपि वाचकाशक्तिततया मूलशब्दापस्थापनेन प्रत्यायकत्वोपपत्तेः,
तज्ज्ञानात्तु शृण्वन्तो बालाः साधारणश्च तत्रैव संज्ञासञ्जिसम्बन्धं शिक्षित्वा
स्वयं व्यवहरन्ति । तेभ्यश्च शिक्षित्वाऽन्येपीत्येवमपि प्रयोगप्रत्ययोप-
पत्तौ नैकान्ततः सर्वेषामप्यविच्छिन्नपारम्पर्यवाचकत्वनिर्णयः सम्भ-
वति । तत एवानेकशब्दत्वमेकस्यार्थस्यानभ्युपगन्तुं युक्तम्, अनेकशक्ति-
कल्पनाप्रसङ्गात् । गोशब्देन सास्नादिमानभिधीयते इत्यातवक्यात्
वाचकत्वप्रग्रहदशायामभिधानक्रियामभिधानक्रिया द्वारा तत्कर्मकरणयो-
र्वाच्यवाचकयोरर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यादिति अनेन
न्यायेन नियमरूपः सम्बन्धोऽवगतः ।
ततश्च गाव्यादेरपि सास्नादिमदर्थवाचकत्वस्वीकारे सास्नादिमत्क-
र्मकाभिधानक्रियायां गोशब्द एव करणमिति नियमस्य व्युत्पत्तिकालो-
वगतस्य बाधः स्यात् । तस्मादेकैकस्य वाचकत्वमितरे त्वशक्तित्जा इत्येव
न्याय्यम् ।
कर-हस्त-पाण्यादिषु तु विशेषानवधारणादनेकशब्दता गत्यन्तराभावा-
दूरीक्रियते । गाव्यादिषु तु शिष्टस्मरणाभावान्न तथेति न सर्वेषां वाचक-
त्वम् । वाचकरूपनियमॆऽपि स्मृतेः स्मृत्यन्तरमेव मूलम् तस्याप्यन्यदित्य-
नादिरेवैषा स्मृतिपरम्परा ।
न चेयमन्धपरम्परा शब्दस्वरूपशब्दान्तराद्विविक्तस्य प्रत्यक्षत्वात् ।
सर्वो हि स्वे काले गवादिंशब्दान् प्रत्यक्षत उपलभन्ते। वृद्धेभ्यः श्रुत्वाऽतीत-
कालेऽपि सत्तामवधारयन्ति ।
सर्वकालमपि केचन वृद्धाः सन्ति, तत्प्रत्यक्षसम्भवान्न कदाचिदपि-
प्रत्यक्षविच्छेदः । सर्वकालवर्तित्वमेवानादित्वं साधुत्वञ्च । तथा च
तत्तत्कालिकवृद्धप्रत्यक्षसश्राचीनया शिष्यस्मरणपरम्परया सास्नादि-
मदर्थेषु गवादिंशब्दानांमनादिवाचकत्वरूपं साधुत्वं स्वध्यवसानम् ।
न चैतत्सर्वं गाव्यादिष्वपि सम्भवति, तत्र प्रत्यक्षपरम्परायाः कथ-
ञ्चित् सम्भावितत्वेऽपि तन्मात्रेण साधुत्वानिश्चयात्, अशक्तिजत्वस्यापि
सम्भवाच्च ।
वेदस्वरूप-विमशॆ ३९७
शिष्टस्मरणाभावान्न गाव्यादिषु अनादित्वनिश्चय इति न साम्यम् ।
न च विगानादप्रामाण्यम्, श्रुतीनामपि ग्रहणामग्रहणादिविगानदर्शनात् ।
नापि निष्फलत्वं व्याकरणशास्त्रस्य, धर्माधर्मप्रतिपत्तिपरिहारार्थं तदुपादान-
हानोपयोगिशब्दापशब्दविभागज्ञानस्वरूपफलस्य सत्त्वात् । रक्षोहादेश्च
वेदविरुद्धस्य सर्ववेष्टनस्मरणाद्येवाप्रामाण्येऽपि न सर्वस्याप्रामाण्यं,
अप्रामाण्यहेत्वभावात् । 'प्रयोगोत्पत्त्यशास्त्रत्वात् शब्देषु न व्यवस्थास्या-
त्, (१।३।२४) शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम्, ( १।३।२५ )
अन्यायाश्चानेकशब्दत्वम्, ( १।३ २६ ) तत्र तत्त्वमभियोगविशेषात् स्यात्
१।३।२७ तदशक्तिश्चानुरूपत्वात्, (१।३।२९) एकदेशत्वाच्च विभक्ति-
व्यत्यये स्यात्, (१।३।२९) यत्त्वार्य-म्लेच्छयोरभिधानविपत्तिर्यथा पीलु-
शब्दमार्यावृक्षविशेषे म्लेच्छास्तु हस्तिनि प्रयुञ्जते, तत्रोभयोरपि शब्दार्थ-
योर्लोके प्रसिद्धिगम्यत्वात् तुल्यबलत्वं प्राप्यते । यद्यार्येषु अबंध्यस्मरणमना-
दित्वकारणं तदपि समानं म्लेच्छेषु इति पूर्वः पक्षः। सिद्धान्तस्तु प्रातिपदि-
कतामात्रं म्लेच्छेष्वप्यवगम्यते । अविप्लुतशब्दस्त्वार्थेष्वेवावधार्यते ।
न चोभावपि शब्दार्थौ, अनेकादृष्टशक्ति कल्पनाप्रसङ्गात् । शब्दप्रयोगो-
प्यन्यतरस्यानवगणात्, व्यवहारानुपपत्त्या कदाचित्कस्यचिदुपादाने
विकल्पापत्तिश्च स्यात् । तेनैकत्र मुख्यत्वेनान्यत्र गौणत्वेनापि प्रयोगोप-
पत्तिः । गौणत्वेऽपि पार्श्वस्थानां मुख्याभिमानसम्भवात् । तैरेव चान्येभ्यो
मुख्यत्वस्य कथनात् मुख्याभिधानपरम्परानुवृत्तिस्सम्भवात् । यदि
विशेषोनावधार्येत तदा गत्यभावाद् द्वयोरभिधेयता अस्ति तु विशेषः।
शास्त्रज्ञा हि शब्दैङ्गम्यमधर्माधर्माविप्लुतलिप्सया शब्दार्थतत्त्वं
विविच्य पालयन्ति । म्लेच्छास्तु दृष्टार्थव्यवहारस्य यथाकथञ्चित्
सिद्धेः प्रयोजनाभावात् नाविप्लुतितिसिद्धौ यतन्ते । अतः प्रतिपादकतामात्रं
यद्यपि म्लेच्छेष्वपि सिद्धयति तथापि विप्लुतित्सम्भवान्न तेषु शब्दार्थत
स्वासिद्धिरिति निर्दोषार्यप्रसिद्धयै वार्थसिद्धिरिति पील्वादिशब्द
वृक्षार्थमभिधायिनः ।
आर्यप्रसिद्धिविरोधे म्लेच्छप्रसिद्धेरप्रामाण्येऽपि अविरोधे तु तस्या
अपि भवत्येवार्थनिर्णये प्रामाण्यम् । पिक-नेम-सत-तामरसादिशब्दा
": is it "मयूर"?
Wait, why would it be "कपोतादीनाम्"? Could it be "मयूरपक्ष..."?
Wait! Look at 'क': could it be 'पि'? No, look at the letter: 'क'. Then 'पो'?
Wait, could it be "मयूरकलापादीनामङ्गचन्द्रकादीनां"?
कलाप = peacock's tail!
Let's check "कलापादीनाम्":
क (ka)
ला (lā) - wait, does 'ला' look like that?
In Devanagari, 'ला' has a rounded left. But here it has a loop to the left and top stroke: that's 'पो'!
Wait, could it be "मयूरपोतानामङ्गचन्द्रकादीनां"?
What is "मयूरपोत"? Young peacock, peacock chick!
"मयूरपोतानाम्" - wait, is there 'दी'?
Let's look at the letters:
म-यू-र-
क-पो-ता-दी-ना-म-
Wait, why "मयूरकपोतादीनाम्"? A peacock and a pigeon/dove! Both are birds that hatch from eggs!
Wait, do pigeons have "अङ्ग" and peacocks have "चन्द्रका"?
"मयूरकपोतादीनामङ्गचन्द्रकादीनां सूक्ष्मरूपेणाण्डेषु रसेऽप्युपसंहारात्..."
Wait! Look at line 18
यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:
[पृष्ठ ४००]
यथेन्द्रियस्यावेद्यत्वेऽपि विषयप्रतीत्यन्यथानुपपत्त्याऽनुमेयस्यैव विषय-
प्रतीतिजनकत्वं तथैव स्फोटोपलब्ध्यन्यथानुपपत्त्या कश्चिदत्यन्तापरो
क्षो ध्वनिरपि स्फोटाव्यञ्जको भविष्यति ।
अन्यैश्च-स्वतन्त्रः स्फोटासंपृक्तो ध्वनिर्गृह्यते इत्यभ्युपेयते । अव्य-
क्तानां ध्वनिरव गृह्यते, व्यक्तानां शब्दानान्तु ध्वनिः स्फोटश्चेत्युभय-
मपि गृह्यते ।
तत्रैकध्वनेर्व्यञ्जकत्वेऽन्यध्वनिवैयर्थ्यापत्या ध्वनिसमुदायस्यैव
व्यञ्जकत्वम्, क्षणिकपूर्वपूर्वध्वनिसंस्कारसचिवो नान्त्यध्वनिना स्फोटः
स्फुट्यते । न चैवं सरो रस इत्यविशेषः स्यादिति वाच्यम्, उपलब्धि-
क्रमारोपितक्रमवन्तो ध्वनयः पश्चाद् युगपन्मम्यमान अपि तत्क्रमेण स्मृताः
स्फोटमवबोधयन्ति । यथा ज्ञानस्य घटपटाद्युपाधिरेव भेदस्तथैव
स्फोटस्यापि व्यञ्जकध्वनिगतः क्रमविशेषोपाधिक एव भेदः । यथा
शतत्वादिसंख्यायाः अपेक्षाबुद्धिजन्यत्वेन एकत्वादिविग्रहणमुपायः,
तथैव वाक्यस्फोटप्रतिपत्तये देवदत्ताद्यवान्तरपदश्रवणमुपायः । यथा च
चरमैकत्वग्रहणे ततोऽन्यन्तविलक्षणायाः शतत्वादिसंख्याया बोधः
वर्णपदभिन्नत्वेऽपि तथैव अखण्डस्फोटस्य ग्रहणे वर्णादिग्रहणमुपायः ।
यथा वर्णपदवाक्यव्यञ्जका ध्वनयः प्रत्येकं भिन्नास्तथापि सादृश्या-
द्विन्नतयाऽप्रतीयमाना वर्णादीन् व्यञ्जयन्ति । वर्णाभिव्यञ्जकध्वनिसङ्घ-
शब्दभिव्यङ्ग्यत्वात्पदेषु वर्णाः पदाभिव्यञ्जकध्वन्यभिव्यङ्ग्यत्वात्
वाक्ये पदानि भासन्ते । परमार्थतो मिथ्याभूतान्यपि मासन्ते ।
ननु जन्यजनकयोरेव नियतत्वम् । तन्तुभिरेव पटः, कपालाभ्यामेव-
घटः, न व्यङ्ग्यव्यञ्जकयोः, घटव्यञ्जकेनापि दीपेन पटव्यक्तिक्षर्शनार्त् ।
नाप्यभिव्यङ्ग्यत्वेऽभिव्यञ्जकनियमः मणप्रदीपापिभिरपि घटाद्यभिव्यक्तेः ।
तथा च ध्वनिशब्दयोव्यङ्ग्यव्यञ्जकभावे कण्ठाभिघातजेन ध्वनिना
अकार एव, ताल्याभिघातजेन चकार एवेति नियमो न स्यात्
नियमस्य च दर्शनात् ध्वनिशब्दयोर्जन्यजनकभाव एव युक्तः । न व्यङ्ग्य-
व्यञ्जकभाव इति चेन्न, इन्द्रियविषययोरिव व्यङ्ग्याव्यञ्जकत्वेऽपि
ध्वनिस्र्फोटयोर्योग्यतान्नियमोपपत्तेः । यथा चक्षुषीरूपग्राहकता घ्राणे
[पृष्ठ ४०१]
गन्धग्राहकता, रूपे चक्षुर्ग्राह्यता, गन्धे घ्राणग्राह्यतेति जन्यजनकत्वा-
भावेऽपि योग्यतान्नियता । तथैव प्रकृतेपि तदुपपत्तेः ।
यदप्युक्तम्-घ्राण-श्रोत्रयोः स्वसजातीयद्रव्यमात्रसमवेतगुणग्राह-
कत्वम्, ततश्च रूप-रस-स्पर्शाः विसदृशेन्द्रियग्राह्याः, गन्धशब्दौ सह-
शेन्द्रियग्राह्यौ । तत्र यथा सहशेन्द्रियग्राह्ये गन्धेऽभिव्यञ्जकनियमो नास्ति,
तथैव तादृशे शब्देऽप्यभिव्यञ्जकनियमेन न भवितव्यम् । दृश्यते तु
नियमस्तस्माच्छब्दो न व्यङ्ग्यः किन्तुत्पाद्य एव । तदपि न; गन्धेऽपि
व्यञ्जकनियमदर्शनात् । यथाहि कुङ्कुमगन्धाभिव्यञ्जकं गोघृतं नियतं
तथैव शब्देपि नियमो युक्तः ।
ननु गन्ध-रस-रूप-स्पर्शेषु सहशेन्द्रियग्राह्यत्वेन अभिव्यञ्जकानां
संख्यावृद्धिह्रासांश्च अभिव्यङ्ग्योऽनुवर्तते । तैले श्यामं, जले गौरं, वज्र-
मणौ लघु, दर्पणे बृहत्, वङ्गे-दीर्घं, मुकुरे वर्तुलं च प्रतिबिम्बं दृश्यते,
तथैवाभिव्यञ्जकध्वनेर्भेदे वृद्धौ चाभिव्यङ्ग्ये शब्दे भेदो वृद्धिश्च भासते ।
वैशेषिकाणां रीत्या संयोगाद्विभागाच्छब्दाद्वा शब्दोत्पत्तिं वदन्ति ।
यथा वातेनैका वीचिस्तया तरङ्गात्तरं तेनान्यदिति पूर्वपूर्वतरङ्गेभ्य
उत्तरोत्तरतरङ्गाणामुत्पत्तिः । एवं भेरीदण्डसंयोगात् वेणुदलविभागाद्वा
शब्द आकाश उत्पद्यते । सचासमवायिकारणतया शब्दान्तरमारभते ।
तच्चान्यदिति परम्परया श्रोत्रपथमवतर्णी गृह्यते । भेरीशब्दो मया श्रुत
इत्यनुभवस्तु भ्रम एव ।
वैयाकरणास्तु-स्फोटस्य ग्रहणे प्राकृतध्वनिं हेतुमाहुः । वैकृतं ध्वनिं
वृत्तिभेदे हेतुमाहुः । तदुक्तम् संग्रहकारैः-
स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ।
वृत्तिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते ॥'
यथा प्रकाश उद्यन्नेव घटादिभ्यो भिन्नं घटं प्रकाशयति पश्चात् प्रका-
शेन पुनः पुनर्द्दश्यमानोऽपि घटः, न पूर्वप्रकाशिताद्घटात् भेदमालम्बते
तथा प्राकृतध्वनिरेव भिन्नं स्फोटं व्यञ्जयति । अनन्तरं वैकृतध्वनिस्तु
पूर्वाभिव्यक्तस्यैव तावत्कालमुपलब्धे हेतुर्भवति,न पूर्वाभिव्यक्ताद् भिद्ये ।
वे० वि०-२६
िरधिकदेशं व्याप्नोति।
Wait, "ध्वनिरधिकदेशं": look at 'नि' in "ध्वनिरधिकदेशं". There is a small ink smudge, but it's clearly ध्वनिरधिकदेशं.
अकारस्तु न भिद्यते।
द्रव्याभिघातात् ध्वनिकारणवायुसंयोगप्रचयात् दीर्घप्लुतयोः
प्रचयः। अधिककालं वादितायां घण्टायां कम्बोऽनुवर्तते। स्पन्दे उपरते
Wait, "कम्बोऽनुवर्तते" or "कम्पोऽनुवर्तते"?
Look at the letter: 'म्प'! In 'कम्पो', 'म्' + 'प' = 'म्प'. It is clearly "कम्पोऽनुवर्तते।"
सञ्जाता नादा वैकृतध्वनयः। तैरेव द्रुतादिव्यवस्था भवति। शब्दानित्य-
त्वपक्षे तु ह्रस्वत्वादयोऽकारादिधर्मा एव।
अन्येषां रीत्या तु कम्पेऽनिवृत्तेऽपि ज्वालान्तराद्वज्ज्वाला इव स्फोटा-
देव वैकृतध्वनयो जायन्ते।
केषाञ्चित् वायोरन्येषाणमुत्परेषां ज्ञानस्य शब्दत्वापत्ति-
Wait, "वायोरन्ये
' -> 'कथमनुमानमात्रेणार्थनिर्णयः ।'
Yes, 'कथमनुमानमात्रेणार्थनिर्णयः ।'
किञ्च निङ्गातशकेरग्न्यादिद्रव्यस्य मणिमन्त्रौषधादिभिर्विशिष्ट-
Wait, what is that word: 'निङ्गातशकेरग्न्यादिद्रव्यस्य'?
Let's zoom in on that word!
'नि' then what?
Is it 'निर्दग्ध'? 'निराकृत'? 'निर्ज्ञात'?
Look at the characters:
1: नि (ni)
2: र्ज्ञा (r-jñā)?
Wait! 'र्' on top? Yes, a repha!
And underneath is 'ज्ञा' (jñā)!
3: त (ta)!
निर्ज्ञात! (nirjñāta = known, ascertained!)
4: श (śa)
5: क्ते (kte)
6: र (ra with repha? No, र् + अ = र)
निर्ज्ञातशक्तेरग्न्यादिद्रव्यस्य!
निर्ज्ञातशक्तेः + अग्न्यादिद्रव्यस्य = निर्ज्ञातशक्तेरग्न्यादिद्रव्यस्य!
Wow, absolutely clear: निर्ज्ञातशक्तेरग्न्यादिद्रव्यस्य!
Line 8 continued:
मणिमन्त्रौषधादिभिर्विशिष्ट-
सम्बन्धैः सा शक्तिः प्रतिबद्ध्यते । तथा
४०६ वेदपौरुषेयत्वविमर्शः
नार्षज्ञानेनानन्तानन्तशब्दापशब्दनिष्ठधर्मोधर्मजनकत्वं लक्षैकचक्षु-
ष्काः पश्यन्ति ।
यथा विज्ञाने जायमाने तत्प्रामाण्यं स्वत एव गृह्यते, यथा वा आत्मनि
अहं वा नाहं वेति न सन्दिग्धे, न च नाहमिति विपर्यस्यति, स्वप्रकाश-
त्वादेव, तथैव श्रुतिस्मृतिलक्षण आगमोऽनादिशिष्टपरम्परया प्राप्तत्वा-
दसन्दिग्धविपर्यस्ततया बोधजनकत्वादपौरुषेयत्वतन्मूलकत्वाभ्याञ्चा-
पास्तसमस्तपुंदोषतया स्वतः प्रमाणमेव ।
किं बहुना श्रुतिस्मृत्यनपेक्ष्यापि आप्तानामृषीणां वचनबलादेव जन-
साधारणस्य हिंसाव्यभिचारादौ पापबुद्धिः, दानयज्ञपरोपकारादौ
धर्मबुद्धिर्दृढमूला । तदुक्तम्-
'इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये ।
आचाण्डालं मनुष्याणामल्पं शास्त्रप्रयोजनम् ॥
( वा. प. ब्र. का. ४० )
किमु वक्तव्यमनाद्यपौरुषेयमन्त्रब्राह्मणात्मकवेदतच्चरणाश्रितार्ष-
ग्रन्थानामपास्तसमस्तशंकाकलङ्कपङ्कानां शास्त्राणां प्रामाण्यस्वतस्त्वे ।
हस्तस्पर्शादिना मार्गमनुमाय विषमे पथि धावतोऽन्धस्येव तर्कप्रधानस्य
विनिपातो न दुर्लभः । तस्मादेव शिष्टैस्तत्रागममाश्रित्यैव शब्दानुशासन-
मारभ्यते । तदुक्तम्-
'तस्मादकृतकं शास्त्रं स्मृतिञ्च सनिवन्धनाम् ।
आश्रित्यारभ्यते शिष्टैः शब्दानामनुशासनम् ॥'
वैयाकरणैर्वेदानामकृतकत्वेनापौरुषेयत्वमेवाभ्युपेयते ।
'न जात्वकृतकं कश्चिदागमं प्रतिपद्यते ।
बीजं सर्वागमापाये त्रय्येवातो व्यवस्थिता ॥'
[L
पृष्ठ ४२८
व्याकरणशास्त्रं वाङ्मूलं निवारयति । संस्कारहीनः शब्दोऽपि फादर,
गावी, पित्तेति प्रयुयुक्षिते फादर गावीत्यादि निष्पद्यते स एवापभ्रंशः ।
'शब्दप्रकृतिरपभ्रंशः' इति सङ्ग्रहवचनात् ।
केचित्तु प्राकृतं मूलं संस्कारेणोत्पन्नं संस्कृतमेव सादि वदन्ति ।
तत्त प्राकृतव्याकरणविरुद्धम् । तत्र तु प्रकृतिः संस्कृतं तस्माद्भवं प्राकृत-
मिति संस्कृतमेव प्रकृतिरित्युक्तम् ।
संस्कारस्त्वत्र असाधुशब्देभ्यः साधुशब्दानां विवेचनमेव ।
यथा तितउना ( चालन्या ) अनुपादेयेभ्यः उपादेयानां पृथक्करणमेव
संस्कारः तथैवात्रापि बोध्यम् ।
'शब्दः संस्कारहीनो या गौरिति प्रयुयुक्षिते ।
तमपभ्रंशमिच्छन्ति विशिष्टार्थनिवेशिनम् ॥'
( वा० प० ब्र० का० १४८ )
तत्रापि अश्श्वगोण्यादयः अश्वगवादिसम्बन्ध एवासाधवः, धनहीने
आबपने तु साधव एव ।
तदुक्तम्-
उभयेषामविच्छेदादन्यशब्दविवक्षया ।
योऽन्यः प्रयुज्यते शब्दो न सोऽर्थस्याभिधायकः ॥
( वा. प. ब्र. का. १५६ )
अन्ये तु साधूनामसाधून ञ्चाविच्छेदात् वाचकत्वं सममित्याहुः ।
'समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः क्रियते'
इति महाभाष्यवचनात् । अनादिकालात्साध्वसाधुशब्दानां एव
तितउस्थानीयेन व्याकरणेन पृथक्करणलक्षणसंस्कारेण साधुशब्दानां
संस्कृतत्वं युज्यते । तत एव वेदेऽपि संस्कृताया वाचो भिन्ना काचि-
न्मानुषी वाक् स्वीकृता ।
आधुनिका अपि व्याहरन्ति यत् लैटिन ग्रीक जेन्द संस्कृतादिभाषाः
परस्परं भगिन्य एव, तासां परस्परं साम्यदर्शनात् । कदाचित्तत्तद्भाषा-
भाषिणः समानदेशस्था आसन्निति तेषां भाषैक्यञ्चानुमीयते । यथा
यथा ते परस्परं विप्रकर्षमुपगतास्तथा तथा तद्भाषासु भेदाः सञ्जाताः ।
पृष्ठ ४२९
यस्यास्तु भाषाया इमा दुहितरः सा तु मृतेत्यपि तदनुपलम्भादनुमानम् ।”
तदपि मन्दम्; यतः संसारस्य पुस्तकालयेषु प्राचीनतमस्य ऋग्वेदस्यैवोप-
लम्भात् संस्कृतभाषाया एव सर्वाधिकप्राचीनता विज्ञायते । सैव च
लैटिन ग्रीक जेन्द भाषाणां जननी, उपस्थितं परित्यज्यानुपस्थित-
कल्पने मानाभावात् । विपुलसंस्कृतधातुप्रत्ययेभ्यः सर्वशब्दानां
निष्पत्तिसम्भवाच्च ।
एवं पिदर फादर आदिशब्दानां संस्कृतप्रकृतिकत्वेन साधु
स्मरणात् पित्रादिवाचकत्ववृत्त्यभावेऽपि अक्षिनिकोचादिवत्तज्ज्ञाप-
कत्वं वा स्वतन्त्रतया वाचकत्वं वा । न साधुशब्दतदर्थ-सम्बन्धा-
नामौत्पत्तिकत्वे ( स्वाभाविकत्वे ) काचिद् बाधा । व्याकरणशास्त्रेण
येषां साधुत्वं तेभ्यः पुण्यविशेषो जायते इति नियमस्तु विशेषः ।
यदृच्छाशब्दवन्नव्यशब्दानां तु सङ्केतोऽपि नव्यः ।
वस्तुतस्तु वैयाकरणानां मते बौद्ध एवार्थः शक्यः । पदमपि बौद्धमेवेति
तयोरभेदः । सामयिकः शब्दार्थप्रत्ययः । समयस्तु 'अस्येदं नामधेय'-
मिति नियोगरूपः, 'अयमयमिति नियोग' इति पातञ्जलात् ।
तत्रापि पाणिन्यादिस्मार्तसङ्केतस्यैव वाचकता नियामकत्वम् ,
न त्वाधुनिकस्य । आधुनिकसङ्केतस्थले 'द्वादशेऽह्नि पिता नाम कुर्यात्'
इति स्मृत्यनुसारेण क्रियमाणनामस्थले लक्षणैव । तत्र घट-गोविन्दादि-
गुणाद्यारोपेण तन्मूलकप्रवृत्तिनिमित्तारोपेण च बोधः । गामानयेति
प्रयोजकवृद्धवचनेन गवानयनप्रवृत्तिरूपं प्रयोज्यप्रयोजकवृद्धव्यवहारं
पश्यता व्युत्पित्सुना बालेन प्रयोज्यप्रवृत्त्या स्वस्तन्यपानप्रवृत्तिमूलज्ञान-
वज्ज्ञानमनुमाय ज्ञानस्य चोपस्थितत्वात् शब्दमेव कारणत्वेन गृहीत्वा
असम्बद्धस्य कारणत्वानुपपत्त्या सम्बन्धः कल्प्यते । गां बधान
अश्वमानयेति अवापोद्वापाभ्यां सास्नादिमदादिषु गवादिपदानां शक्ति-
र्गृह्यते । व्यवहारस्यैव शक्तिग्राहकेषु प्राधान्यम् । यथा वृश्चिकाद्गो-
मयाच्च वृश्चिकोत्पत्तिः । एवं सर्गादौ केवलादृष्टात् । इदानीं तु ब्राह्मणाद्-
ब्राह्मणोत्पत्तिः । यथा मायावी मायामयं प्रयोज्यं निर्माय घटमानये-
त्यादि प्रयुज्य शक्तिं ग्राहयति । तथेश्वरोऽपि केवलादृष्टाच्छरीरद्वयं
कृत्वा शक्तिं ग्राहयति ।
"तदशक्तौ चानुरूपत्वात्" is actually Jaimini Sutra 1.3.28 in some editions!
Wait, let's check: Jaimini 1.3.24 to 1.3.29 is the Apashabda-adhikarana / Shabda-prayoga:
1.3.24: प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात्।
1.3.25: शब्दप्रयत्ननिष्पत्तेरपराधस्य भागित्वम्।
1.3.26: अन्यायश्चानेकशब्दत्वम्।
1.3.27: तत्र तत्त्वमभियोगविशेषात् स्यात्।
1.3.28: तदशक्तौ चानुरूपत्वात्।
1.3.29: एकदेशत्वाच्चेति।
YES! EXACT MATCH! Jaimini Sūtra 1.3.28 is precisely:
"तदशक्तौ चानुरूपत्वात्" !
That is brilliant!
Now let's examine the right page in detail:
Line 1:
"पादकाधिकरणसंगतिः। शब्दशक्तेरुभयत्र तुल्यत्वे त्वसंगतिरेव ।"
Wait, the left page ends with:
"अत एव यव शब्देन दीर्घशूकविशेष एव ग्राह्यो न कङ्गुरित्येतत् प्रति-"
Right page begins:
"पाद