वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 227, कुल 237 में से
संदर्भ में पढ़ें४२८ वेदस्वरूप-विमर्श
तुल्यकालत्वमेवेति वार्तिकोपयोगः । प्रवाहरूपेण अनादित्वेऽपि एकस्मिन्
कल्पे प्रादुर्भावपौर्वापर्याभ्यां प्राचीनत्वार्वाचीनत्वव्यवस्थाऽपि उपपद्यते ।
तत एव 'पुराणप्रोक्तेषु ब्राह्मणकल्पेषु' इति सूत्रे 'पुराणपदोपादानम् । तं
दृष्ट्वा याज्ञवल्क्यानि ब्राह्मणानीति नवीनप्रोक्त-ब्राह्मणव्यतिरिक्त-पुराण-
प्रोक्तब्राह्मणग्रहणार्थं 'छन्दोब्राह्मणानी'त्यत्र ब्राह्मणग्रहणं सार्थकं भवति ।
अन्यथा पुराणप्रोक्तेति सूत्रं व्यर्थमेव स्यात् ।
किञ्च—वेदार्थविचारार्थमेव पूर्वोत्तर-मीमांसयोः प्रवृत्तिः । तत्र च
प्रायः ब्राह्मणभागमधिकृत्यैव विचारः प्रवर्तते । अल्पीयानेव तत्र खलु मन्त्र-
विचारः । धर्मस्य चोदनालक्षणत्वेन, चोदनायाश्च विधिरूपत्वेन, विधेश्च
'जुहुयात्' 'यजेत' 'निर्वपेत्' इत्यादि ब्राह्मणरूपत्वेन ब्राह्मणस्य अवेदत्व-
वचनं मूढजनजल्पनमेव । 'धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः' इति
मनुस्मृतौ श्रुतिपदेन वेदस्यैव ग्रहणम् । धर्मबोधकत्वन्तु ब्राह्मणभागस्यैव ।
मन्त्राणां तु धर्माङ्गतैवतास्तवनादौ उपयोगः । 'आम्नायस्य क्रियार्थत्वादि'-
त्यत्रापि ब्राह्मणानामेव विधिभिन्नानामर्थवादानां क्रियार्थत्वाभावादानर्थक्य-
माङ्कितम्, विधिना त्वेकवाक्यत्वात् स्तुत्यर्थत्वेन सार्थक्यञ्च उपपादितम् ।
ब्राह्मणस्यावेदत्वे तदुभयमप्यसङ्गतं स्यात् । 'तत्सामान्यं समाम्नाये ।
(१।४।१७) इति सूत्रे 'वैश्वानरं द्वादशकपालं निर्वपेत्' इति ब्राह्मण-
मेव समाम्नाय शब्देनोक्तम् । 'वेदे हि त्रयाणां निर्देशो भवति' (६।१।३३)
इति सूत्रभाष्ये 'वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यम् । शरदि
वैश्यम् इति ब्राह्मणवाक्यमेव वेदशब्देनोक्तम् । विधौ तु वेदसंयोगात्'
(६।७।२९) इत्यत्र 'माषान् मे पचत' इति ब्राह्मणवाक्यमेव वेदशब्दे-
नोक्तम् । 'आम्नायवचनं तद्वत्' (११।२।४१) इति सूत्रे
'यदेवाध्वर्युः करोति' इति ब्राह्मणवाक्यम् आम्नायवचनमुक्तम् ।
'सत्रे गृहपतिरसंयोद्धा तद्वदाम्नायवचनाच्च' (१२।३।३०) इति
सूत्रे 'यो वै सत्रे बहूनां यजमानानां गृहपतिः' इति ब्राह्मणवाक्यं आम्ना-
यशब्देनोक्तम् । 'यज्ञो मन्त्रब्राह्मणस्य विषयः' (गो. सू. ४।१।६२) इति
वात्स्यायनभाष्ये यज्ञविषयत्वं वेदस्य विषय उक्त। यज्ञप्रतिपादकञ्च
ब्राह्मणभाग एव । 'विध्यर्थवादानुवाद-वचनविनियोगात्' इति सूत्रे
ब्राह्मणानां वेदत्व-विमर्शः ४२९
गौतमेन ब्राह्मणत्रैविध्यमुक्तम् । विस्तरस्तु अस्मन्निबद्धे 'वेद का स्वरूप
और प्रामाण्य'-पुस्तके द्रष्टव्यः । नियमस्तु दक्षिणाभिः श्रुतिसंयोगात्
(३।७।३६), 'विरोधे च श्रुतिविरोधादव्यक्तः शेषः' (३।८।३२), 'शक-
लश्रुतेः' (४।२।४) इत्यादौ श्रुतिशब्देन ब्राह्मणान्येव गृहीतानि । कि
बहुना, वेदविचाररूपायाः पूर्वमीमांसाया नवशताधिकरणेषु प्रायेण सर्व-
त्रैव ब्राह्मणवाक्यानामेव विचारः एवमेव वेदान्तविचाररूपाया उत्तर-
मीमांसाया अपि अधिकरणेषु ब्राह्मणारण्यकोपनिषदामेव बाहुल्येन
विचारः । ब्राह्मणानामवेदत्वे सर्वमेतद् व्याकुप्येत ।
यदुक्तम् -- "सामाजिकैः मन्त्रभाग ब्राह्मणभागेति भागद्वयपद-
प्रयोगो न कर्त्तव्यः, तथात्वे मन्त्रभागस्य वेदत्वे तद्भागान्तरस्य ब्राह्म-
णस्यापि वेदत्वापत्तिः स्यात् । नहि कलिन्दस्यैको भागः कलिन्दोऽपर-
स्तादृशो भवितुमर्हती"ति । तदेतत् साहसमात्रम् ; मन्त्रभाग ब्राह्मण-
भागेति भागद्वयात्मकस्य वेदत्वप्रसिद्धेः; ब्राह्मणो ब्रह्मजातौ स्याद्देवभागे
नपुंसकम्' इति कोषात्, 'तच्चोदकेषु मन्त्राख्या, शेषे ब्राह्मणशब्दः'
इति जैमिनिसूत्राच्च । सनातनधर्मानुयायिभिः प्रदर्शितायाः कलिन्दोदा-
हरणरूपयुक्तेः सम्मुखे सामाजिकानामेष पराजय एव । उक्तसूत्रद्वयेन
च स्पष्टमेकभागस्य मन्त्रत्वमुक्त्या शेषस्य भागान्तरस्य ब्राह्मणत्व-
मुक्तम् ।
यत्तु--केनचित् अत्र शेषशब्दस्य अङ्गमर्थं विधाय "वेदस्य शेषे
अङ्गे ब्राह्मणशब्द" इत्युक्तम् । तत्तूच्छम् ; तथात्वे 'शेषे यजुःशब्दः'
इत्यत्रापि तथार्थाङ्गीकारप्रसङ्गात् यजुषो मन्त्रत्वानापत्तेः ।
यदुक्तम्- "स्वरहीनस्य गोपथादिब्राह्मणस्य न वेदत्वमि"ति । तदपि
तुच्छम्; शतपथतैत्तिरीयै-तरेयादिवत् गोपथादि-ब्राह्मणस्यापि सस्वर-
त्वानुमानात् । यथा अनेकासां शाखानां लोपः, कासाञ्चिद् ब्राह्मणलोपः
कासाञ्चिच्च मन्त्रसंहिता-लोपः, तथैव केषाञ्चिद् ब्राह्मणानां स्वर-
लोपोऽपि । न च स्वरलोपेन वेदत्वलोपो भवतीति वक्तुं शक्यम् ।
किञ्च--नहि रेखात्मका एव स्वराः, रेखाणां लिपिरूपत्वेन कल्प-
निकत्वात् । न च हस्तचालनविशेष एव स्वरः; क्वचिच्च द्विहस्तचालनस्यैव