वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 228, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ ४३०
सम्प्रदायसिद्धत्वात् । क्वचिच्छस्त्रादिपाठे हस्त-शिरसारुभोयोरपि न
प्रयोगः । स्वरराहित्यस्य अवेदत्वप्रयोजकत्वे सामाजिकोच्चरित-
मन्त्रे स्वराप्रयोगात् तदभिमन्त्राणामपि अवेदत्वमेव स्यात् । न च
शस्त्रपाठे वेदत्वं नास्तीति वक्तुं शक्यम् ; तत्र 'यज्ञकर्मण्यजप-न्युङ्ख-
सामसु' (पा० सू० १।२।३४) इत्येकश्रुतिविधानात् । स्वरसामान्या-
भावश्च एकश्रुतिः । तथा च रेखात्मकस्वराभावेऽपि वैदिकाः परम्परानु-
सारेणैव गोपयादीन् पठन्ति । तत्र चोच्चारणं स्वराप्रतिकूलमेव ।
शृङ्गपुच्छादिवैकल्येऽपि गोर्गोत्ववत् 'एकदेशविकृतमनन्यवद्'िति न्यायेन
कुत्रचित् स्वरसम्प्रदायलोपेऽपि वेदत्वमक्षुण्णमेव । अत एव स्वराप-
राधेऽपि न मन्त्रे मन्त्रत्वहानिः । स्वरसत्त्वे साङ्गत्वेन शक्तिशालित्वम्
विपरीतस्वरत्वे वाग्वज्रत्वेन यजमानानिष्टकारित्वञ्च । स्वरहीनत्वे
किञ्चिद्धीनशक्तित्वमेव । तदुक्तं पाणिनीयशिक्षायाम्—
'मन्त्रो हीनः स्वरतो वर्णतो वा
मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति
यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥'
( पा० शि० ५२ )
वर्णव्यत्ययेन तु आनुपूर्वीनाशाद् वेदत्वापगम एव, वर्ण-पदानु-
पूर्वीविशेषस्यैव वेदत्वात् ।
यद्यपि स्वरसूत्रानुसारं कस्मिंश्चिदपि पौरुषेयमन्त्रे स्वरसंस्कारो
विधातुं शक्यत एव, तथापि न तावता तस्य वेदत्वम्, तस्य गुरु-
परम्परया अप्राप्तत्वात्, कर्तृस्मरणाच्च । यत्र न खलु कर्ता स्म्रियते,
अर्थात् अनन्यथासिद्धप्रमाणैः प्रमीयते, कामं स्वरलोपः स्यात्, तत्रैव
अपौरुषेयत्वं वेदत्वञ्च । कल्पादीनां कर्तारः स्मृतिकोचरा एव ।
काठकादि-समाख्यायास्तु जैमिनिनैव 'आख्या प्रवचनात्' इत्यन्यथा-
सिद्धता उपपादिता ।
न च क्वचिदारण्यकेषु कूपेषु प्रकीर्णवाक्येषु च कर्ता न प्रमीयते,
तावतापि तस्य पुरुषनिर्मितत्वं पौरुषेयत्वञ्च अनुमीयत एवेति वाच्यम् ;
पृष्ठ ४३१
तत्रावश्यस्मर्तव्यत्वे सतीति विशेषणत्वात् । तत्र व्यवहारे कर्ता नावश्यं
स्मर्तव्यः, तत्स्मरणमन्तरापि व्यवहाराबाधात् । मन्त्राणां ब्राह्मणानां
तु यदि कश्चित् कर्ता स्यात्तदा स गुणवृद्धिसंज्ञादिकृत्-पाणिन्यादि-
वदवश्यं स्मर्तव्यः स्यात् । कर्तु राप्तत्वविज्ञानमन्तरा तत्कृतग्रन्थोक्तोपायेषु
शिष्टानां प्रवृत्त्यसम्भवात् । नहि येषां कुरान-बाइबिलादिप्रणेतृषु
मोहम्मदादिषु आप्तत्वबुद्धिर्न भवति तेषां तदुक्तोपायेषु प्रवृत्तिर्दृश्यते ।
ब्राह्मणानि यदि पौरुषेयाणि भवेयुस्तदातत्कर्तु राप्तत्वज्ञानेनैव तदुक्तोपायेषु
प्रवृत्तिर्वैदिकानां स्यात् ।
न च ब्राह्मणानां कर्तुं स्तदाप्तत्वस्य च ज्ञानं दृश्यते, तथा च
कुतः प्रवृत्तिः तत्स्मरणमन्तरेणोपपद्यते ? कर्तृस्मरणमन्तरापि ब्राह्मणा-
ध्ययनाध्यापने तदर्थानुष्ठाने च आप्तानां प्रवृत्तिदर्शनादवश्यस्मर्तव्यत्वे
सत्यपि कर्तुरस्मरणाद् अपौरुषेयत्वमेव निश्चेतव्यम् । क्वचित् स्वर-
सम्प्रदायलोपेऽपि गुरुशिष्यपारम्पर्यमस्त्येव । अनुष्ठानञ्च तस्य प्रचल-
त्येव । ताण्ड्यादिब्राह्मणानाम् अध्ययनाध्यापन-तदर्थानुष्ठानस्य
अविच्छेदः स्वरादिसम्प्रदायविच्छेदेऽपि लुप्तशाखानामिव परमेश्वरे
महर्षिषु च विद्यत एव । लुप्तशाखीया अपि मन्त्राः श्रौतसूत्रेषु
ब्राह्मणेषु च वेदमन्त्रत्वेनैव व्यवह्रियन्ते ।
निरुक्तकारोऽपि शाकल्य-शौनक-कौथुम-वाजसनेयिसंहिताभ्योऽन्य-
शाखासंहितामन्त्रान् ब्राह्मणवाक्यानि च निगमत्वेन उदाहरति ।
तथा हि--"अमेनांश्चिज्जनितश्वेतशक्थं' 'श्नाश्वा कृन्तन्नतपसोऽतप्वत'
इत्यपि निगमौ भवतः” ( ३।२१।२ ) । अत्र 'अमेनांश्चित्' इति
ऋक्संहितायां श्नात्वा इति च सामवेदीये ताण्ड्यब्राह्मणे
( १।१।८ ) मैत्रायणीयसंहितायां ( १।९।४ ) काठक-
संहितायां ( ९।४ ) च लभ्यते । एवमेव “यस्मात्परं नापरमस्ति
किञ्चित् , तेनेदं पूर्णं पुरुषेन सर्वम्' इत्यपि निगमो भवति'
( निरुक्तम् २।३ । ) इति श्वेताश्वतरोपनिषदि ( ३।९ ) दृश्यते ।
एवमेव "द्वयवह्वितवाच्व" ( अष्टाध्यायी १।४।८२ ) इत्यस्योदाह-
रणं मामन्द्रेरिन्द्रहरिभिर्याहि' इति ऋक्संहितायाम् ( ३।४।१ ),