वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
DevanagariHindipublished237 पृष्ठ
पृष्ठ 226, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ 226
[पृष्ठ ४२६]
वेदस्वरूप-विमर्शः
देव मन्त्राणामपि वेदसंज्ञा कृष्णयजुर्वेद एव ग्राह्या स्यात् । एवमितरत्र
अधीतानां मन्त्राणामपि वेदसंज्ञा न सिद्धयेत् । न केवलमनेन ब्राह्मणा-
नामेव वेदसंज्ञा विधीयते । यावत्र चाद्यपरिहारौ ब्राह्मणे तावेव मन्त्रेऽप्यु-
द्भावयितुं शक्यौ ।
'ययोरेव समो दोषः परिहारश्च तादृशः ।
नैकः पर्यनुयोक्तव्यस्ताहगर्थविचारणे ॥' इति ।
वस्तुतोऽपौरुषेयं वाक्यमेव वेदः । अपौरुषेयता च अविच्छिन्नपा-
रम्पर्येण अस्मर्यमाणकर्तृ कत्वेन च निश्चीयते । ते च मन्त्रवत् ब्राह्मणेऽपि
तुल्ये । अत एव 'तुल्यं तु साम्प्रदायिकम्' इति सूत्रेण अर्थवादानामपि
साम्प्रदायिकता (अविच्छिन्नपारम्पर्यम् ) उक्ता । कौथुम-भाभ्रव्यादिना-
दिसमा