वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 134, कुल 237 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the text from the provided image into pure Devanagari Markdown:
[पृष्ठ २४२]
२४२ वेदस्वरूप-विमर्शः
तेन शरीराख्यस्य भूतात्मनो वैश्वानरत्वायुक्तिः सर्वथाऽपि प्रमाणविधुरा
तद्विरुद्धा च ।
यच्च "स्वप्नेन शरीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति शुक्र-
मादाय पुनरेति स्थानम् । हिरण्मयः पुरुषः एक हंसः प्राणेन रक्षन्नवरं
कुलायम् बहिष्कुलायादमृतश्चरित्वा स ईयतेऽमृतो यत्र कामम् हिरण्मयः
पुरुष एक हंसः" इति श्रुतिवचनैः सूर्यमण्डलात्प्राप्तज्योतिषा विज्ञान-
सम्पन्नो भूत्वा हंसात्मा भूतात्मना सहैव तिष्ठति । स च शरीरासृङ्-
मांसादिभिरसंस्पृष्टः कर्मसंस्कारैश्चासम्पृक्तः जाग्रदाद्यवस्थातीतः स्वय-
मसुप्तः सुप्तान् देहेन्द्रियादीन् पश्यति रक्षति च । स एव भयहेतूपस्थितेषु
जीवात्मानं प्रबोधयति । संकल्प्य विशेषेण स एव संकल्पिते समये
प्रबोधयति । सूर्याल्लब्धविज्ञानत्वाद्विरण्मयः स देहाद्वहिरुच्चन्द्रादि-
मण्डलपर्यन्तं गन्तुं प्रभवति परलोकविद्यावेदिभिः स एवाकाथ्यैते
शरीरे नष्टेऽपि वायुदेहेन विचरति यथेष्टं रूपञ्च गृह्णाति इत्याद्युक्तम् ।
तदपि वेदान्तसम्प्रदायाज्ञानविजृम्भितम् । सोपाधिकनिरुपाधिकात्म-
व्यतिरिक्तस्य तादृशस्यात्मनोऽप्रसिद्धत्वात् । यदि स कर्मसंस्कारैः
सर्वथा असंस्पृष्टस्तदा अवस्थात्रयान्वयिना भूतात्मना सहैव कथं
तिष्ठति । किञ्च यदि भूतात्मना सहैव तिष्ठति तर्हि बहिः कथं
गच्छति ? बहिः जीवात्मानमादाय गच्छति एकल एव वा ? एकलश्चेत्
कथं तेन सहैव तिष्ठति ?
किञ्च स जीवो वा ? ईश्वरो वा। जीवश्चेत्कथं कर्मसंस्कारशून्यः ?
कथञ्च स्वतन्त्रः ? ईश्वरश्च कथं भूतात्मनैव सह तिष्ठति ? तस्य
सर्वव्यापकत्वात् ।
किञ्च यदि व्यापकस्तर्हि चन्द्रमडलादिपर्य्यन्तं गमनं कथमुपपद्यते ।
परिच्छिन्नस्यैव गमनादिसंभवात् । यथेष्टरूपग्रहणञ्च कर्मबलात् स्वतो
वा ? प्रथमे कथं कर्मासंस्पृष्टः ? स्वतश्चेत्कथन्न सर्वदा तद् गृह्णीयात् ?
किञ्च तन्निर्मितं रूपं कोपलम्यते ? किञ्च तत्र मानम् ? परलोक-
विद्यया यदि स एवाकाथ्यैते, तदा तस्य तु निर्लेपत्वात् सुखदुःखानुभूति-
वर्णनं कथं संगच्छते । तस्य प्रबोधकत्वे कथं सुप्ता एव सर्पादिदष्टाः
[पृष्ठ २४३]
वेदस्वरूप-विमर्शः २४३
जलाद्यापूरेण वा जना म्रियन्ते ? तस्मात् मृषैव युक्तिवाक्याभासै-
रेकालम्बनम् ।
मन्त्रार्थस्तु-श्रीशङ्कराचार्यादिभिः स्वप्नद्रष्टृवर्णनपरत्वेन व्याख्यातः।
तदेते श्लोका भवन्ति इति वचनान्तरं मन्त्रा एते बृहदारण्यके चतुर्थेऽध्याये
उक्ताः । तेन पूर्वोक्तेऽर्थे एते मन्त्रास्तत्समर्थनाय प्रवृत्ताः । पूर्वप्रकृतं तु
स्वप्नवर्णनम् । पूर्वस्मिन् प्रसङ्गे आत्मनो जाग्रत्स्वप्नादिप्रसङ्गेन शुद्धत्वम-
वस्थाद्वितयवतोऽपि वस्तुतस्तद्राहित्यं स्वयंज्योतिष्ट्वञ्च, अलुप्तदृक्स्व-
रूपत्वं निरतिशयानन्दस्वाभाव्यञ्चैतत्सर्वं प्रदिदर्शयिषितम् । तत्र जनक-
याज्ञवल्क्यसंवादेनात्मनः स्वयंज्योतिष्ट्वसिद्धये आदित्यचन्द्रवागा-
दिषु ज्योतिःषु सत्सु प्रबोधकाले तेषां ज्योतिषां साङ्कर्यादात्मनः स्वयं
ज्योतिष्ट्वं न दर्शयितुं शक्यम् । सुषुप्तौ व्यवहाराभावाज्ज्योतिः कार्या-
भावादात्मनो ज्योतिष्ट्वं नावगन्तुं शक्यमिति तदर्थं स्वप्नावस्थोपन्यासः ।
तत्रादित्यादीनामभावेऽपि व्यवहारो भवति । तत्र व्यवहारहेतुना ज्योति-
षा भाव्यमिति स्वाप्निकव्यवहारहेतुत्वेनात्मन असाङ्कर्येण स्वयञ्ज्योति-
ष्ट्रं च बोधयितुं शक्यम् । आदित्यादिज्योतिर्विलक्षणस्तदभौतिकं ज्योतिः ।
'कतम आत्मा' इत्यादिना देहेन्द्रियप्राणमनःसु यस्त्वयोक्तः आत्मा स
कः ? सर्वे प्राणा विज्ञानमया इव भवन्ति ! योऽयं विज्ञानमयः
प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति
ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो
रूपाणि, 'य अयमिति' प्रत्यक्षत्वादात्मनो निर्देशः । स विज्ञानमयः
विज्ञानप्रायः बुद्धिविज्ञानोपाधिसंपर्काच्चन्द्रादित्यसम्पृक्तराहुवदुप-
लभ्यते । बुद्धिविज्ञानालोकविशिष्टमेव हि सर्वविषयजातमुपलभ्यते,
'सधी'रिति चोत्तरत्र पाठात् । प्राणेषु इत्युक्त्या प्राणेभ्यो व्यतिरिक्तः ।
यो हि येषु भवति स तेभ्यो व्यतिरिक्तः । यथा पाषाणेषु वृक्षः । तत्रापि
हृदि बुद्धौ 'अन्तः' इति ततो व्यतिरिक्तः सूच्यते । यथादित्यप्रकाशस्थो
घटो यथा वा मरकतादिमणिः क्षीरद्रव्ये प्रक्षिप्तः परीक्षणायात्मरूछायामेव
तत्क्षीरादिद्रव्यं करोति ताह्गेतदात्मज्योतिर्बुद्धेरपि सूक्ष्मत्वात् हृद्यन्त-
स्थमपि हृदयादिकार्यकरणसंघातञ्चैकीकृत्यात्मच्छायां करोति ।