वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 135, कुल 237 में से
संदर्भ में पढ़ें२४४
“यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥”
“तमेव भान्तमनुभाति सर्वम्” इत्यादिश्रुतिस्मृतिभ्यः ।
सोऽयं दृष्टन्तः ज्योतिः पुरुषः निरतिशयञ्चास्य स्वयञ्ज्योतिष्ट्वम्
सर्वावभासकत्वात् स्वयमनन्यावभास्यत्वाच्च । स एवात्मा करणानु-
ग्राहको जामदवस्थायामपि आदित्यादिज्योतिषामपि स एव भासकः ।
तथापि सर्वकरणागोचरत्वात् बुद्ध्यादिबाह्याभ्यन्तरकार्यकारणव्यवहार-
संनिपातव्याकुलत्वान्मुञ्जादिषीकेव निष्कृष्य दर्शयितुमशक्य इति स्वप्ने
दिदर्शयिषितः । स समानः सन् हृच्छब्दवाच्यया बुद्ध्या सदृशः सन्
यथा रक्तमवभासयन्रक्तसदृशो रक्ताकारः प्रकाशो भवति तथा
बुद्धिमवभासयन् बुद्धिद्वारेण कृत्स्नं क्षेत्रं प्रकाशयतीति तेन
बुद्धिस सादृश्येनेव बुद्धिव्यापारमनुसरतीव ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें