वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 133, कुल 237 में से
संदर्भ में पढ़ें२४० वेदस्वरूप-विमर्शः
तत्र क्षेत्रक्षेत्रज्ञज्ञानेनैव मोक्षावाप्तिरुक्ता, क्षेत्रज्ञस्य परमात्मरूपत्व-
श्रोक्तम्- "क्षेत्रज्ञं चापि मां विद्धि ।”
“क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा
भूतप्रकृतिमोक्षञ्च ये विदुर्यान्ति ते परम् ।”
इत्यादिवचनेभ्यः । मनुवचनार्थस्तूक एव ।
यदुक्तं 'महत् क्षेत्रज्ञौ भूतात्मसंपृक्तौ उच्चावचेषु भूतेषु स्थितमात्मान
व्याप्य तिष्ठतः' इति । तदपि न; तत्र तमित्यस्य वेदाविप्रसिद्धतया तत्पुन-
र्निर्दिष्टस्य परमात्मन एव ग्रहणात् । तस्यैव शरीरात् स्वरूपाज्जीवानां
प्रसरणोक्तिः संगता भविष्यति । तदेतत्सर्वं तमिति जीवात्मग्रहणे नोपप-
द्यते । तस्यैकस्य सर्वभूतेषु स्थितिरपि नोपपद्यते । क्षेत्रज्ञातिरिक्तश्च
जीवात्मा सर्वथा नोपपद्यते 'एतद्यो वेत्ति तम्प्राहुः क्षेत्रज्ञमिति तद्विदः'
इत्यादिभिर्वचनैः क्षेत्रज्ञस्यैव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें