वासवदत्ता (महाकवि सुबन्धु - श्लेष-प्रधान शास्त्रीय गद्यकाव्य सान्वय सटीक)
Vasavadatta of Mahakavi Subandhu with Commentary
महाकवि सुबन्धु द्वारा
पृष्ठ 168, कुल 244 में से
संदर्भ में पढ़ेंनन्दनः हिमालय इव जनि[३१]तशिवः मन्दर इव भोगि-
भोगाङ्कितः कैलास इव महेश्वरोपभुक्तकोटिः मधुरिव
नानारामानन्दकरः क्षीरोदमथनोद्य[३२]तमन्दर इव
मुखरितभुवनः राग(१४)(राज) इवो ऽल्(लसित)रतिः ईशानभूति-
सञ्चय इव सन्ध्योच्छलितः शरन्मेघ इवा ऽवदातहृदयः
[३३] विष्णुपदावलम्बी च पार्थ इव समरसाहसोचितः कंस
इव [३४] कुवलयापीड(भूषणः) तार्क्ष्य इव [विनतानन्दकरः]
सुमुखनन्दन(ः) [च] विष्णुरिव क्रोडीकृतसुतनुः शान्तनव
इव स्ववश[स्थापित]काल[३५]धर्मः कौरवव्यू(१५)ह इव सु-
शर्माधिष्ठितः [सुबाहुरिव रामानन्दी समदृष्टिरपि महे-
श्वरो मुक्तामयो ऽप्यतरलमध्यो] जल(धरसमय) इव [३६]
विमलतरवारिधारात्रासितराजहंस(मण्डलः ¹ सुबाहुरपि रा-
मानन्दकरः समदृष्टिरपि महेश्वरः मुक्तामयो ऽप्य-
तरलमध्यः) वंश[प्र]दीपो ऽप्यक्षतदशः तनयो (ऽभूत्)
कन्दर्पकेतुर्नाम। येन [च] चन्द्रेणे ऽव सकलकलाकुल-
गृहेण शर्वरीतिहारिणा [३७] (कैरववि)बन्धुना प्रसाधिताशेन
विलोकि(१६)ता जलधय इव (सम्)उल्लसितगोत्रास् सुदूर[वि ²]वर्धि-
तजीवनाः प्रसन्नसत्त्वास् [३८] सन्तः परां (ऋद्धिम्) अवापुः।
यस्य [च] जनितानिरुद्धलीलस्य रतिप्रियस्य कुसुमशरासनस्य
मकरकेतोरिव दर्शनेन वनिताजनस्य हृदयमुल्ललास।
यस्मै चा ऽनुगतदक्षिणसदागतये (नेत्र ³)श्रुतिसुख(प्रदाय)
कोमलकोकिलरुताय वि(कसित)पल्लवाय कृतका[३९]म्तारतरम्-
गाय सुरभिसुमनोभिरामाय सर्व[जन]सुलभपद्माय वि-
(स्तृत ⁴)कन(१७)कसम्पदे अतिक्रान्तदमनकाय वसन्ताये ऽवो
(ऽप)वन[४०]लता इवो ऽत्कलिकासहस्रसङ्कुला भ्रमरसङ्गताः
प्रवालहारिण्यो विलसद्वयसस्तरुण्यः स्पृहयां चक्रुः। यस्य
च समरभुवि [४१] भुजदण्डेन कोदण्डं कोदण्डेन (बा-
णः बाणैर्) अरिशिरः (अरिशिरसा) भूमण्डलं (भूमण्डलेना)
ऽनुभूत(पूर्वनायकस्मरणं स्मरणेन च) कीर्तिः कीर्त्या च
सप्त सागराः सागरैः कृतयुगादिराज[चरित]स्मरणम् (स्मर-
णेन) स्थैर्यं (स्थैर्येण) प्रतिक्षणम् आश्चर्यम् आसादितम्।
¹ So also Hall's manuscripts C, E, F, G, H, and the commentator Narasiṃha.
² Hall's manuscripts B, C, D, G, H also omit vi; Trichinopoly ed., parivardhita.
³ So also Hall's manuscripts A, B, C, D, E, F, H, and the commentators Narasiṃha and Jagaddhara.
⁴ Cf. viṣkṛta in Hall's manuscript D.