सामग्री पर जाएँ
सर्वकोश
वासवदत्ता (महाकवि सुबन्धु - श्लेष-प्रधान शास्त्रीय गद्यकाव्य सान्वय सटीक)

वासवदत्ता (महाकवि सुबन्धु - श्लेष-प्रधान शास्त्रीय गद्यकाव्य सान्वय सटीक)

Vasavadatta of Mahakavi Subandhu with Commentary

महाकवि सुबन्धु द्वारा

DevanagariHindipublished244 पृष्ठ

पृष्ठ 167, कुल 244 में से

संदर्भ में पढ़ें
पृष्ठ 167

शुद्धिः सुवर्णानां] (सूचि)भेदो मणीनां शूलभंगो युवती-
(नवप्रसवेषु अग्नितुलाशुद्धिस स्वर्णानां) दुश्शासन[२१]दर्श-
नं (महा)भारते करपत्र(वि)दारणं जलजानां (परम् एवं
व्यवस्थितं). महावराहो गोत्रोद्धरणप्रवृत्तो ऽपि गोत्रोद्द-
ळनम् अकरोत्. राघवः परिहरन्नपि जनकभुवं जनक-
भुवा सह वनं विवेश. भरतो (राम)दर्शितभ[२२]क्तिर् अपि
राज्ये विरामम् अकरोत्. नळस्य दमयन्त्या मिळितस्या ऽपि पुनर्-
भूपरिग्र(८)हो जातः. पृथुर् अपि गोत्रसमुत्सारणविस्तारितभू-
मण्डलः. (तद्) इत्थं ना ऽस्ति वागवसरः (पूर्वतनेषु¹) राजसु
(अपि तु वचनीयतायाः). स पुनर् अन्यो [एव] देवो न्यक्कृतसर्-
वोर्वीपति(चक्र)चरितः. तथाहि स पर्वतः कटकसंचारिणो
गन्धर्वान् दर्शितशृंगोन्नतिस् सुख[२३]यन् न विरराम. स हि-
मालयो नावश्यायोच्छलितो नो मायाजन्मने हितश् च. स हिमानी
गिरि स्थितो वृषध्वजश् (च). (९) (स) सदागतिश् (चा) ऽवधूताखिल-
कान्तारः पावकाग्रेसरो न [२४] भोगोत्सुकस् सुमनोहरश् च.
स रत्नाकरो ऽन(तिमयो) [कथम् अ]ऽगाधस् सम(१०)र्यादः
नोद्रोको [ऽप्य् अस्य] विस्मयस् सदा हिमकर(ा[२५]शयो) ऽमृत-
मयस् (सत्पात्रस्) तस्या ऽचलो नक्यो ऽधो महानदीनस् समुद्रश्
(च). [२६] स [चन्द्र इव] क्षणदानंदकरः कुमुदवन(ऐ-
क)बंधुस् सकलकलाकुलगृहं नतारातिबलश् (चंद्रश् च. स)
मित्रोदयहेतुः कांचनशोभां बिभ्रद[२७]चलाधिकलक्ष्मी-
(११)स् सुमेरुः [इव]. यस्य च रिपुवर्गस् सदापार्थो ऽपि न म-
हाभारतरणयोग्यः भीष्मो ऽप्य् अशांतनवेहितः सानुचरो
ऽपि न गोत्रभूषितः. (१२) [२८] [अपि च] स त्रिशंकुर् (अपि) न
(ना)क्षत्रपथ(च्युतः) शं करो ऽपि न विषादी पावको ऽपि न
कृष्णवर्त्मा (ना) "श्रयाशो [ऽपि] न दहनश् (च) ना ऽमृतक [२९]
इवा ऽकस्माद् अपहृतजीवनः न राहूर् इव मित्रमण्डलग्रहण-
(सं)वर्धितरुचिः न नळ इव कलिवि(जितविग्रहः) न चक्री "व
सृगालवधस्तुतिसमुल्लसितः नंदगोप इव यशोदया (ऽन्वितः ²)
जरासंध इव घटितसंधिविग्रहः भार्गव इव सदान-
भोगः दशरथ [३०] इव सुमित्रोपेतः सुमंत्राधिष्ठितश्
च दिलीप इव सुदक्षिणाactivityन्(वितः ³) रक्षित(१३)गुश् च राम इव जनि-
सकुशलवयोरूपोच्छ्रायः. तस्य च (राज्ञः) पारिजात इवा "श्रित-


¹ Trichinopoly ed. and Srirangam text, पूर्वतरेषु.
² So also Hall's manuscripts C, E, F, H, and the commentator Jagaddhara.
³ Cf. anugatō in Hall's manuscript C.
L 2