सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 413, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 413

द्वितीयोऽंशः ३११

  • प्रकाश *
    'इच्छाज्ञानाक्रियारूपमादनत्रयसंयुतम् ।
    सदाशिवासनं देवि महाबिन्दुमयं परम् ॥
    इत्यस्य इच्छादयस्तिस्रः शक्तयो रूप्यन्ते जन्यन्ते यस्मादीकारात् स च मादनानां
    ककाराणां त्रयं चेत्येताभ्यां संयुक्तं जनितं महाबिन्दुमयं सदाशिवासनम्, ब्रह्मविष्णु-
    रुद्रेश्वराः पादाः, फलकं सदाशिवममयम्, तादृशं सर्वानन्दमयं चक्रमित्यर्थः । अथ वा,
    इच्छाज्ञानाक्रियारूपाश्च ते मादनाश्च त्रयं चेति द्वन्द्वः । त्रयशब्देन बिन्दुत्रयात्मकत्वाद्दी-
    कारो ग्राह्यः । शेषं पूर्ववत् । तदेतदाह—कत्रितयादित्यादिना । सर्वसिद्धिप्रदसर्वरोग-
    हराख्यचक्रद्वयमपि मिलित्वा नवयोन्यात्मकम्; तच्च तिसृभिर्हृल्लेखाभिर्जातम्,
    'हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः ।
    बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये ॥'
    इति वचनादित्याह—तदग्रिम इत्यादिना । सर्वरक्षाकरसर्वार्थसाधकसर्वसौभाग्य-
    दायकाख्यं स्थितिचक्रत्रितयं तिसृभिः शक्तिभिस्त्रिभिरनलैश्च रचितं हकारद्वयेनैकादश-
    स्वरेण च समुत्पन्नम् । तदुक्तम्—
    'मण्डलत्रययुक्तं तु चक्रं शक्त्यनलात्मकम् ।
    व्योमबीजत्रयेणैव...........................॥'
    इति । दशारद्वयं मन्वश्रं चेति मण्डलत्रयम् । व्योमबीजे च त्रयं चेति विग्रहः ।
    त्रयपदेन कोणत्रयात्मकत्वादेकारः । व्योमनी च बीजं चेति विगृह्य व्योमबीजान्येव
    त्रयमिति वा विग्रहः, बीजपदेनैकारः, तस्य ब्रह्माण्डादिकटाहान्तं प्रति बीजभूतत्वात्,
    'यदेकादशमाधारं बीजं कोणत्रयात्मकम्' इति प्रयोगाच्च । हादिपक्षे तु न को ऽप्यत्र
    क्लेशः । तदेतदाह—तत्परेत्यादिनैकारेण चेत्यन्तेन । तत्परचक्रे इति । सर्वसंक्षोभण-
    सर्वआशापरिपूरके इत्यर्थः । उक्तं च—'सरोरुहद्वयं शाक्तैः' इति । शाक्तैः सकराभ्याम् ।
    'अक्षीणि मे—' इतिवद्बहुवचनम् । जन्यजनकयोः समसंख्याकत्वस्य सति संभवे
    युक्तत्वाच्च । अत एव हि हृल्लेखात्रयेत्युक्तश्लोके बिन्दुत्रययुतैरिति विशेषणस्य
    सार्थक्यम्, पञ्चदशस्वक्षरेषु बिन्दुनादत्रयस्येकारैः सह मेलने प्रतिहृल्लेखं हकारो रेफ
    ईकारश्चेति त्रयमेवेति तत्रिकोणेन नवाक्षरसमूहेन नवयोन्यात्मकस्य चक्रद्वयस्य
    जननसंभवात्, बिन्दुशब्दस्य बिन्द्वाद्युन्मन्यन्तसमूहपरत्वात् । स्वरूपकीर्तनमात्रपरत्वेन
    व्याख्यायां तु तद्वैयर्थ्यं स्पष्टम् । चतुरश्राणि त्रैलोक्यमोहनचक्रम् । उभयत्र बहुवचनं
    त्रित्वे ॥ ९९-१०० ॥
  • सरोजिनी *
    १. क+ई+ई+ई—(क एवं तीन ई) —'बिन्दु' (सर्वानन्दमयचक्र)
    २. हृल्लेखा —सर्वसिद्धिप्रदचक्र, सर्वरोगहर चक्र ।।
    ३. हकार —सर्वरक्षाकर चक्र ।।
    ४. हकार —सर्वार्थसाधक चक्र ।।