सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 64, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 64

२-२६ ] उत्तररामचरितं ४७
मेघमालेव यश्चायमाराद्दिव विभाव्यते ।
गिरिः प्रस्रवणः सोयं यत्र गोदावरी नदी ॥ २४ ॥
अस्यैवासीन्महति शिखरे गृध्रराजस्य वास-
स्तस्याधस्ताद्वयमपि रतास्तेषु पर्णोटजेषु ।
गोदावर्याः पयसि विततश्यामलानोकहश्री-
रन्तःकूजन्मुखरशकुनो यत्र रम्यो वनान्तः ॥ २५ ॥
तदत्रैव सा पञ्चवटी यत्र चिरनिवासेन विविधविस्रम्भातिप्रसङ्गसाक्षिणः
प्रदेशाः प्रियाया प्रियसखी च वासन्ती नाम वनदेवता । किमिदमापति-
तमद्य रामस्य । संप्रति हि ।
चिराद्वेगारम्भी प्रसृत इव तीव्रो विषरसः
कुतश्चित्संवेगात्प्रचल इव शल्यस्य शकलः ।
नसाधनानि येषाम् । 'मन्द्रस्तु गम्भीरे' इति, 'मधु मधुल' इति, 'विरवां
वाशितं रत' इति, 'विपुलं प्रच्छदपट.' इति चामर ॥ २३ ॥ मेघमाले-
वेति ॥ २४ ॥ 'माला स्यात्पङ्क्तिमाल्ययो' इति, 'आराद्दूरसमीपयो' इति
मेदिन्यमरौ । आरादिवेत्यत्र इवशब्दो वाक्यालङ्कारे । इहेति च पाठ ।
अत्र गुणैैरन्वये तुर्यं पादं प्रथम योज्य । तेन चकारस्य सार्थक्यम् । प्रथ-
मपादे अयमिति शब्दो व्यर्थ ॥ न च वाच्य योऽय वायो यानि सन्ति इत्या-
दिनायशास्त्रवाक्यवदुपपत्तिरिति ॥ सत्यम्, तत्र सगुणत्वादित्येवोक्त । प्रकृते
मयाकथयित् प्रथमद्वितीयचरणान्तोक्तयोरयमिति शब्दयोरन्यतरोऽपागलत्तना-
यते इति दिक् ॥ २४ ॥ अस्यैवासीन्महतीति ॥२५॥ अस्य प्रस्रवणगिरेः ।
तस्य शिखरस्य । 'अधोऽधस्तादिति द्विरूप । वयमिति सीताक्ष्मणसमेता
इति भाव । रता. स्थिता इति यावत् । तेषु प्रसिद्धेषु लक्ष्मणबद्धेषु वा ।
यत्र चटजेषु संस्थिति शेष । वितता विस्तृता श्यामला च अनोक-
हश्रीः वृक्षशोभा यस्मिन् । 'श्रीर्वेश्रचना शोभा सपत्सरलशासिपु । वाणील-
क्ष्मील्वेश्केपु विप्रवित्त्वे च' इति निघ्न । मधुरशकुन इति विव । मधुरश-
कुन इति सुपाठ । मुखरैति कश्चित् । तत्र, पौनरुक्त्यापत्ते । वनान्तः ।
वनस्यान्त उपेश आसीदित्यनुषङ्ग । 'अन्तोप्रनिधनोद्देशावसानेपु' इति पदा-
र्थमाला । धीरन्त इति पनि ॥ वासन्तिकेति-आत्रेय्या सह संवादं या
कृतवती सेवेति बोध्यम् । किमापतितमिति । अत्र प्रियसखी वर्तते ध्रुतो
वर्तते कुतो वयं समागता इति, अस्यावर्त्तनेन सप्रह्लादक किं फलमिति वा
भाव' । तदिदन् तावतेति च पाठ. । मद्य रामस्येति ध्वनि ॥ चिराद्वेगा-
१ 'आरादपि' क-घ-य. २ 'प्रतिवसति' इत्यधिकं घ-च-पुस्तकयोः । ३ 'वि-
रोदेणा०' ग-घ.