सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 65, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 65

४८ उत्तररामचरितं [२-२८
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः
घनीभूतः शोको विकलयति मां नूतन इव ॥ २६ ॥
तथापि तान्पूर्वसुहृदो भूमिभागान्पश्यामि । ( निरूप्य ।) अहो अनव-
स्थितो भूतसन्निवेशः । तथाहि ।
पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां
विपर्यासं यातो घनविरलभावः क्षितिरुहाम् ।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं
निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥ २७ ॥
हन्त परिहरन्तमपि मामितः पञ्चवटीस्नेहो५ बलादाकर्षतीव (सकरुणम्)
यस्यां ते दिवसास्तया सह मया नीता यथा६ ते गृहे
यत्सम्बन्धिकथाभिरेव सततं दीर्घाभिरास्थीयत ।
एकः संप्रति नाशितप्रियतमस्तामद्य रामः कथं
पापः पञ्चवटीं विलोकयतु वा गच्छत्वसम्भाव्य वा ॥२८॥
रम्मीति ॥ २६ ॥ चिरात् बहुकालानन्तरम् । वेगः कौटिल्यम् । प्रस्रुतः
व्याप्त । कुतश्चित् कस्मादपि संवेगात् सञ्भ्रमात् । अङ्गसन्धिवन्धचलः
दिति यावत् । प्रचलः चञ्चलः । शल्यस्य बाणादिमुखवर्तिन अयोऽग्र (प्र२)
स्येत्यर्थः । 'शल्यं शङ्कु' रित्यमरः । शकलः खण्ड । 'अणुकृणीति' (१)
महाराष्ट्राः । रूढः आनुपूर्व्याय सञ्जात ग्रन्थि यस्मिन् स व्रणः स्फु-
टितः विदीर्ण । हृन्मर्मणीति बाधातिशयद्योतनायोक्तम् । 'भूतं प्राप्ते च
जाते च' इति शब्दमाला । विदलयति शकलयति विकलयतीति च चत्वारः
पाठा ॥ २६ ॥ पूर्वसुहृद् इति भूमिभागानां विशेषणम् । इदं द्वितीयाबहु-
वचनम् । पुरातनमित्राणीत्यर्थः । निरूप्य विभाव्य । भूतानां सन्निवेशः
अवस्थानम् । 'भूतं क्ष्मादौ' इत्यमरस्य । सरितां प्रदेश इति शेष ॥ पुरा
यत्र स्रोत इति ॥ २७ ॥ विपर्यासं वैपरीत्यम् । घनविरलभावः सान्द्र-
पेलवत्वम् । 'पेलवं विरलम्' इत्यमरः । क्षितिरुहां वृक्षाणाम् । अपरं
इतरत् । ब्वनिध । तदिदं अवस्थानमिति शेषः । सर्धाऽशैलानामित्यनुषङ्ग ।
तथा च पुरा ये स्थिता त एवैते शैला इति बुद्धिं द्रढयति दृढीकरोती-
त्यर्थ ॥ २७ ॥ सकरुणमिति 'करणस्तु रसे शृङ्गे कारुण्येऽपि च' इति
विश्वः ॥ यस्यां ते दिवसा इति ॥ २८ ॥ यस्यामिति यच्छब्देन
१ 'पुराभूत' न २ 'मूर्छयति च' क-घ. ३ 'तथापिनानि' न. ४ 'भूमि'
क-घ-घ. ५ 'पञ्चवटीस्नेहाद्' न. ६ 'पुन' घ. ७ 'सम्बन्ध' न.
८ 'तामेव' न.