उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 62, कुल 439 में से
संदर्भ में पढ़ें२-१७ ] उत्तररामचरितं ५३
चतुर्दश सहस्राणि चतुर्दश च राक्षसाः ।
त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः ॥ १५ ॥
येन सिद्धक्षेत्रेऽस्मिञ्जनस्थाने मादृशामपि जानपदानामकूतोभयः सञ्चारो
जातः ।
रामः-न केवलं दण्डका जनस्थानमपि ।
शम्बूकः-बाढम् । एतानि खलु सर्वभूतरोमहर्षणान्युन्मत्तचण्डश्वाप-
दकुलसङ्कुलगिरिगहराणि जनस्थानपर्यन्तदीर्घाण्यारण्यानि दक्षिणां दिशमभिव-
र्तन्ते । तथाहि ।
निष्कूजस्तिमिताः क्वचित्क्वचिदपि प्रोच्चण्डसत्त्वस्वनाः
स्वेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः ।
सीमानः प्रदरोदरेषु विरलस्वच्छाम्भसो यास्वयं
तृष्यद्भिः प्रतिसूर्य कैरजगरस्वेदद्रवः पीयते ॥ १६ ॥
रामः-पश्यामि च जनस्थानं भूतपूर्वखरालयम् ।
प्रत्यक्षानिव वृत्तान्तान्पूर्वाननुभवामि च ॥ १७ ॥
चतुर्दश सहस्राणीति ॥ १५ ॥ त्रिमूर्धान इति-अत्र 'द्वित्रिभ्यां ष
मूर्ध्नः' इति प्रत्ययेन समासान्तविधेरनित्यत्वात् ॥ १५ ॥ येन राक्षसानां हन-
नेनेत्यर्थः । जानपदानां देशवासिनाम् । न विद्यते कुतः कस्मादपि भयं
यस्मिन् अकुतोभयः । दण्डकेति भिन्नं पदम् । बाढं इत्यङ्गीकारे । भू-
तानां प्राणिनाम् रोमहर्षणं रोमाञ्च- येभ्यो येषु वा । 'रोमाञ्चो रोमहर्षणे'
इति समयपद्धतिः । 'चण्डस्त्वत्यन्तकोपन' इत्यमरः । अभिवर्तन्ते
आभिमुख्येन वर्तन्ते ॥ भङ्ग्यन्तरेणाह ॥ निष्कूजस्तिमिता इति ॥ १६ ॥
निष्कूजाः निर्गतकूजिताश्च ता स्तिमिताः निश्चलाः । 'कूजितं कूजनंकूजः'
इति द्विरूपः । भोगाः फणास्तया श्वासैः श्वसितानिलैः । प्रकर्षेण दीप्ताः
अग्नयः दवदवयः यासु । सीमान इति नान्त-शब्द । 'सीमसीमे स्त्रियामुभे'
इत्यमरः । अत्र बह्व्यो भ्रमन्ति । प्रदरः अवटा । विरलानि अनिविडानि
स्वच्छाम्भांसि यासु ता । सीमानु तृप्यद्भिः तृषावद्भिः । प्रतिसूर्य कैः ।
'सरटाविशेषे प्रतिसूर्यक' इत्यगस्त्यः । अजगरसौ 'निर्लिप्तुः स्यादजगरः'
इत्यमरः । गजाबळा (?) महासर्पो अजगर इति महाराष्ट्राः ॥ १६ ॥
पश्यामि च जनस्थानं इति ॥ १७ ॥ पूर्वं भूत भूतपूर्वः । भूतपूर्वखरा-
लयमिति जनस्थानविशेषणम् । 'निलयालया.' इत्यमरोक्त्या निलयपुल्लिङ्गत्वेऽपि
१ 'रक्षसां भीमकर्मणाम्' क-प-व. २ 'सिद्धिक्षेत्रे' प. ३ 'भीरूजनानाम्'
घ-व. ४ 'उत्ताप्तप्रन्धिकटगिरे०' न. ५ 'पोर' क-च; 'पोर' व.