उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 61, कुल 439 में से
संदर्भ में पढ़ें४२ उत्तररामचरितं [ २-१४
शम्बूकः—युष्मत्प्रसादोपादान एवैष महिमा । किमत्र तपसा । अ-
थवा महदुपकृतं तपसा ।
अन्वेष्टव्यो यदसि भुवने भूतनाथः शरण्यो
मामन्विष्यन्निह धृतलकं योजनानां शतानि ।
क्रान्त्वा प्राप्तः स इह तपसां संप्रसादोऽन्यथा चेत्
क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वः ॥ १३ ॥
रामः—किं नाम दण्डकेयम् । ( सर्वतोऽवलोक्य । ) हा कथम् ।
स्निग्धश्यामाः क्वचिदपरतो भीषणाभोगरूक्षाः
स्थाने स्थाने मुखरककुभो झाङ्कृतैर्निर्झराणाम् ।
एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः
सन्दृश्यन्ते परिचितभुवो दण्डकारण्यभागाः ॥ १४ ॥
शम्बूकः—दण्डकैवैषा । अत्र किल पूर्वं निवसता देवेन
कारणं यस्य महिमासाधक इति भावः । अथ वैराजनामलोकलाभे । महदुप-
कृतं महानुपकारः कृत इति यावत् ॥ अन्वेष्टव्यो यदसीति ॥ १३ ॥
धृतलकं अल्पक्षुद्रम् । प्राप्तोऽसीति यत् इह प्राप्तौ । स इति संप्रदाया-
( संप्रसादा ? ) नुगुण्येन पुल्लिङ्गतानिर्देशः । अन्यथा चेत् एवं न चेदित्यर्थः ।
अयोध्याया इति पञ्चमी । निलयोक्तितया दण्डकायां इत्युक्तम् । अस्मि-
न्वने तथा च दण्डकावने इति फलितोऽर्थः । अत एव । 'तदुपमा कुसुमाग्य-
सिता शरा.' इति श्रीहर्षः । पुनरपगमः पुनरागमनं नित्यर्थः । तस्मान्मम
तप एव साधकतम इति भावः । स इहेतिकथनविलम्बसङ्कटं कवेरचातुर्यमिति
संप्रदायज्ञाः ॥ १३ ॥ आश्चर्यादाह—किन्नामेति ॥ स्निग्धश्यामा इति ।
॥ १४ ॥ स्निग्धाः मसृणाः । अपरतः अन्यतः । आभोगेन परिपूर्ण-
तया । रूक्षाः क्षयो (?) दुष्प्रवेशा इति यावत् । झांकृतैः शब्दानुकारैः ।
मुखराः शब्दायमानाः ककुभः दिशः येषां येषु वा । 'तीर्थमृषिजुष्टजले
गुरौ' इत्यमरः । गर्ताः अवटाः । 'कान्तारं वर्त्म दुर्गमम्' इत्यमरः, तैः
सान्द्राः निविडाः । परिचिताः अनुभूताः भुवः स्थलानि येषाम्, 'भू-
क्षितौ च स्थलेऽङ्गने' इति रभसः । भागाः प्रदेशाः । कान्तारं अरण्यम् ।
इति केचित् । तन्न ॥ वर्ण्यमानस्य दण्डकारण्यस्य वन्यशैथिल्यापत्तेः ॥ १४ ॥
१ 'युष्मत्प्रसादादेव' न-क, 'युष्मत्पादम्रसादोषाप एव' घ-च. २ 'गर्भे' घ-च.