सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 116, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 116

४-१८ ] उत्तररामचरितं ९७
आविर्भूतज्योतिषां ब्राह्मणानां
ये व्याहारास्तेषु मा संशयोऽभूत् ।
भद्रा ह्येषां वाचि लक्ष्मीर्निषिक्ता
नैते वाचं विप्लुतांर्थां वदन्ति ॥ १८ ॥
(नेपथ्ये कलकलः । सर्वे आकर्णयन्ति ।)
जनकः—अये अथ खलु शिशूनामध्ययन इहास्खलितं खेल्तां बहूनां
कलकलः ।
कौसल्या—सुलहसोम्मं दाव बालत्तणं होदि । (निरूप्य ।) अम्महे
पदाणं मज्झे को एसो रामभद्दस्स कोमारलच्छीसरिसेहिं सावत्थम्भेहिं मुद्ध-
ललिदेहिं अङ्गेहिं अम्हाणं लोअणाईं सीतलावेदि । [सुलभसौम्यं तावद् बा-
लत्वं भवति । अहो एतेषां मध्ये क एष रामभद्रस्य कौमारलक्ष्मीसदृशैः साव-
ष्टम्भैर्मुग्धललितैरङ्गैरस्माकं लोचनानि शीतलयति ।
अरुन्धती—(अपवार्य सहर्षबाष्पम् ।) इदं नाम तद्भागीरथींनिवेदित-
रहस्यं कणमृतम् । न त्वेवं विद्मः कतरोऽयमायुष्मतोः कुशलवयोरिति ।
(प्रकाशम् ।)
न्तमनोरथाया ममैतत् । 'क्षत्रिया क्षत्रियाण्यपि' इत्यमरः ॥ आविर्भूत-
ज्योतिषामिति ॥ १८ ॥ आविर्भूतं ज्योतिः परं ब्रह्म येषु येभ्यो वा ।
व्याहाराः उक्तयः । भद्रा शुभा । लक्ष्मीर्मङ्गलदेवतेत्युपलक्षणम् । सर्व-
देवता इति सिद्धान्तः । 'अपि वा जीवितं जह्याम्' इति रामः । 'विप्रप्रसादा-
द्धरणीधरोऽहम्' इति, 'विजितेयं मही कृत्स्ना ब्राह्मणानां प्रसादतः ।' इति च
कृष्णः । 'मूलं कृष्णो ब्रह्मगो ब्राह्मणाश्च' इति महाभारते । 'स नग्नो ब्राह्म-
णाधीनः' इत्यागमेषु । 'एता एव देवता' इति श्रुतिश्च । इति दिक् ॥ निषिक्ता
नियतं यथा तथा क्षिप्तेत्यर्थः । अनेन सत्यसिद्धेति विभाव्यते । विप्लुतः
निरस्तः शब्दस्यार्थः फलपरिणामः यस्याम् ॥ १७ ॥ न विद्यते अध्ययनं
यस्मिन् । अस्खलितं अकुण्ठितं यथा तथा । सुलभसौम्यमीदृशानीं बालत्वं
भवति । अम्महे एतेषा मध्ये क एष रामभद्रस्य कौमारलक्ष्मीसदृशैः सावष्टम्भैः
मुग्धललितैरङ्गैरंदारकोऽस्माकं लोचनानि शीतलयति ॥ 'अवष्टम्भस्तु संस्थानवि-
– १ 'विप्लुता व्याहरन्ति' घ-घ. २ 'शिशुनन्द्याप.' क-प. ३ 'इदन्तं' क-घ-च.
४ 'निवेदितं रहस्यकर्णामृतम्' न.
९ उ०