उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 117, कुल 439 में से
संदर्भ में पढ़ें९८ उत्तररामचरितं [ ४-२१
कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो
वटुपारषदं पुण्यश्लोकः धियैयं सभाजयन् ।
पुनरपि शिशुभूतो' वत्सः स मे रघुनन्दनो
झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ॥ १९ ॥
कञ्चुकी—नूनं क्षत्रियब्रह्मचारी दारकोऽयमिति मन्ये ।
जनकः—एवमेतत् । तथा हि
चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो
भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् ।
मौर्व्या मेखलया नियन्त्रितमधोवासश्च माञ्जिष्ठकं
पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः ॥ २० ॥
भगवत्यरुन्धति किमुत्प्रेक्षसे कुतस्त्योऽयमिति ।
अरुन्धती—अद्यैवागता वयम् ।
जनकः—आर्य गृष्टे अतीव मे कौतुक वर्तते तद्भगवन्तं वाल्मीकिमेव
गत्वा पृच्छ । इमं च बालकं ब्रूहि । वास केप्येते प्रर्वयेसस्वा दिदृक्षव
इति ।
कञ्चुकी—यदाज्ञापयति देवः । ( इति निष्क्रान्तः । )
कौसल्या—कि मण्णेध एय्वं भणिदो आगमिस्सदित्ति । [ किं मन्यध्वे
एवं भणित आगमिष्यतीति ।
जनकः—भिद्येत वा सद्वृत्तमीदृशस्य निर्माणस्य ।
शेषे गर्वतोपयो ' इति समासः । मुग्धललितैः मनोज्ञविलासैः । सहर्षेति—
लावण्यदर्शनेन हर्षं प्राप्त ( १ ) कपोलश्च इत्युत्कण्ठा ॥ कुवलयदलस्निग्ध
इति ॥ १९ ॥ स्निग्धः मसृणः। धिया शोभया। सभाजयन् आनन्दयन्।
अमृतमयाञ्जनम् ॥ १९ ॥ चूडाचुम्बितकङ्कपत्रमिति ॥२०॥ चूडा मौलिः
चुम्बितः स्पृष्ट यैस्ते चूडाचुम्बिताः तादृशः कङ्कपत्राः यासां यस्मिन्।
'अभितः पार्श्वयो ' इति नन्दी। भस्म भक्षितं स्तोकः अल्पधासां पवित्रः
व्याघ्रनखः ताभ्यां लाञ्छितं 'उभयं वटुरक्षाकम्' इत्यनुभवसिद्धम् । 'पवित्रं
स्यात्पुंसि व्याघ्रनखे' इति धनञ्जयः । रुरुः कृष्णसारः तत्सम्बन्धिनीं रौरवीं
उत्तरीयार्थमिति भावः । मेखलया च 'शङ्खिनी च मेखला' इति पद्ममाला।
'पीतमाञ्जिष्ठौ' इति कपिरः । पैप्पलः पिप्पलसम्बन्धी 'क्षत्रियाणां तु पैप्पल'
१ 'मियेव' म. २ 'भूत्वा' न. ३ 'रतोम' घ. ४ 'भिद्यते' न.