सामग्री पर जाएँ
सर्वकोश
उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

Upavanavinoda of Sharngadhara with Commentary

आचार्य शार्ङ्गधर (सम्पादक: पं. गिरिजाप्रसाद) द्वारा

DevanagariHindipublished134 पृष्ठ

पृष्ठ 70, कुल 134 में से

संदर्भ में पढ़ें
पृष्ठ 70

62 UPAVANA VINODA
करिवरमृदितवलीमुखनखलैर्मूलेषु कीलितस्य तरोः।ᵃ
संवत्सरं च यावत्फलितस्य फलानि जायन्तेᵇ ॥ २०५
बद्ध्वा चर्मतृणाभ्यां विड़ङ्गमधुदुग्धलेपितोलिख्यᶜ ।
शाखा पयोम्बुसेकाच्चिरमपि पक्वं फलं धत्ते ॥ २०६
मीनकोलवसामांसदुग्धसेकेन धूपतः ।
सर्वबीजानि साश्चर्यमुत्तिष्ठन्ति फलन्ति च ॥ २०७
अङ्कोलतैलसूकरशिशुमारवसासु भावितं बीजं ।
सद्यो रोहति निहितं भूमौ करकाम्भसा सिक्तम् ॥ २०८
बीजमाम्रादिवृक्षाणां पक्वं मीनफलाम्बुनि ।
अङ्कोलतैलदुग्धाज्ये निहितं बृहतीभवेत्ᵈ ॥२०६
भस्मनामैलितं शुष्कमुप्तमुद्भिद्यते सह ।
फलेनाशेषलोकस्य कृतकौतुकमञ्जसा ॥२१०
एकविंशतिवारेण कुकुटस्यासृजोक्षितम् ।
तत्तत्क्षणाद्दाडिमीबीजं वर्द्धते फलति ध्रुवम् ॥२११
मत्स्यकोलवसामांसं चणकत्क्षारभावितम् ।
यस्य कस्यापि वा बीजं ध्रुवं पुष्पफलं भवेत् ॥२१२
स्कन्धतः समन्ततः सूकरास्थिभिदृढम् ।
कीलितो न संशयं नाशमेत्यनोकहःᶠ ॥२१३
कुलत्थक्वाथ तोयेन तरुः पुष्पफलं त्यजेत् ।
किंशुकार्जुनतर्कारीलवणाम्बुप्रयोगेन च ॥२१४
(a) गणनाथ—करिमदमृदितवलीमुखसुखनलिकैर्मलेषु etc.
(b) ,, सम्वत्सरं न यावत् फलितस्य फलानि पच्यन्ते ॥
(c) ,, बद्ध्वाचर्मतृणाभ्यां विड़ङ्गमधुदुग्धलिप्तमुल्लिखिता ।
(d) ,, वीजादाम्रादिवृक्षाणां फलं मीनफलाम्बुनि ।
अङ्कोल तैलदुग्धाज्ये निहितात् सुवृद्धद् भवेत् ॥
(e) ,, बीजं द्रुतं etc.
(f) ,, समन्ततः स्कन्धतः स सन्दृढं शूकरारास्थिभिः ।
कीलितो न च संशीष्टं नाशमीतीत्यनोकहः ॥