उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)
Upavanavinoda of Sharngadhara with Commentary
आचार्य शार्ङ्गधर (सम्पादक: पं. गिरिजाप्रसाद) द्वारा
पृष्ठ 69, कुल 134 में से
संदर्भ में पढ़ेंSCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 61
सुरभिसुमनोल्लब्धामोदां निधाय च मृत्तिकां
धवखदिरयोः काथाम्भोभिः सुगन्धिभिरुक्षणात्$^{a}$ ।
मलयजरजोलेपाद्घृष्टस्य च भूरुहां
व्रजति कुसुमं निर्गन्धानामतीव सुगन्धताम् ॥ १६६
यवतिलनिशापलाशैरुपचितमूला तदम्बुसिक्ता च ।
ज्वलदनलोपममसकृत्कर्पासी तूलकं सूते ॥ १६७
शाल्मलीत्वग्निशानीलीत्रिफला कुष्ठसीधुभिः$^{b}$ ।
सकृल्लेपोपचारेण शुकपत्त्रनिभं भवेत् ॥ १६८
मञ्जिष्ठातिलयवपीतसारसारै-
र्जीवन्तीदलसहितैर्मनः शिलाजैः ।
गोजाविप्रचुरपयःसृतैर्विलिप्ता
कर्पासी प्रसवति तूलकं खनीलम्$^{c}$ ॥ १६६
संपर्के क्षुरसविदारिकन्दकविलिप्तमूलभागस्य ।
सिक्तस्येक्षुरसेन च तरोरकाले भवेत्कुसुमम् ॥ २००
तिलखलिविड़ङ्गगोमयविलोड़ितेक्षुरससेचितस्य तरोः ।
फलकुसुममकालभवं मनोहरं फलति लोकस्य ॥ २०१
मधुयष्टिसिताकुष्ठ मधुपुष्पविनिर्मितैः ।
मोदकैश्छादिते मूले निरस्थि स्यात्फलं तरोः ॥ २०२
मधुककुसुमगुञ्जाशर्करोदुम्बराज्य'
समधु निहितमन्तः$^{d}$ काण्डमुत्कीर्य बद्धा ।
उपरि च परिलिप्तं वत्सविद्भिस्तरूणां
जनयति फलमेतत्स्वादुसेकादनस्थि ॥ २०३
तत्कालनिहितस्योच्चै श्छागस्य स्कन्धचर्मणा ।
बद्धायां वृत्तशाखायां फलपाको न जायते ॥ २०४
(a) गणनाथ—सुमं हि निरुक्षणात् ।
(b) ,, कुष्ठ-सिन्धुभिः ।
(c) ,, कार्पासाद्भवति तूलकं खनीलं ॥
(d) ,, मधुविनिहितमन्तः etc.