उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)
Upavanavinoda of Sharngadhara with Commentary
आचार्य शार्ङ्गधर (सम्पादक: पं. गिरिजाप्रसाद) द्वारा
पृष्ठ 47, कुल 134 में से
संदर्भ में पढ़ेंSCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 39
शिरीषशाखिनां पञ्चाणां यः कुर्यात्प्रतिरोपणम्^a ।
गारुडं लोकमासाद्य^b मोदते देववत्सदा ॥१६
पलासशाखिनः सप्त रोपयेदेकमेव वा ।
ब्रह्मलोकमवाप्नोति पूज्यते चामरोत्तमः^c ॥१७
उदुम्बरद्रुमानष्टौ रोपयेत्स्वयमेव यः ।
प्रेरयेद्रोपणायापि चन्द्रलोके स मोदते ॥१८
पार्वती तोषिता तेन स भवेच्च निरामयः ।
पूजिता देवताः सर्वाः मधूको येन रोपितः^d ॥१९
क्षीरिकाकदलीद्राक्षाप्रियालपनसान्वितान् ।
तरून्सरोप्य नो दुःखी जायते सप्तजन्मसु ॥२०
अज्ञानाज्ज्ञानतो वापि जम्बूश्चैन प्ररोपिता ।
गृहेपि स वसन्नित्यमतिधर्मेण^e युज्यते ॥२१
अन्यानपि तरूण्रोप्य फलपुष्पोपयोगिनः ।
रत्नधेनुसहस्रस्य फलं प्राप्नोति मानवः ॥२२
अश्वत्थमेकं पिचुमन्दमेकं
न्यग्रोधमेकं दश चिञ्चिणीकाः^f ।
कपित्थबिल्वामलकत्रयं च
पञ्चाम्रवापी नरकं न पश्येत् ॥२३
अथ निवासासन्नतरुशुभाशुभलक्षणानि ।^1
गृहस्य पूर्वदिग्भागे न्यग्रोधः सर्वकामिकः ।
उदुम्बरस्तथा याम्ये वारुण्यां पिप्पलः शुभः ।
प्लक्षश्चोत्तरतो धन्यो विपरीतांस्तु^g वर्जयेत् ॥२४
(a) गणनाथ—कुर्यात् पथि रोपणं ।
(b) ,, गारुडं लोकमास्थाय etc.
(c) ,, पूज्यते सोऽमरैः सदा ॥
(d) ,, येन निर्मितः ।
(e) ,, वसन्नित्यं यतिधर्मेण युज्यते ॥
(f) ,, चिञ्चिणीकं ।
(g) ,, विपरीतं तु etc.
1 Cf. Gṛhyasūtra of Gobhila, IV. 7. 22-26.