सामग्री पर जाएँ
सर्वकोश
उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

Upavanavinoda of Sharngadhara with Commentary

आचार्य शार्ङ्गधर (सम्पादक: पं. गिरिजाप्रसाद) द्वारा

DevanagariHindipublished134 पृष्ठ

पृष्ठ 46, कुल 134 में से

संदर्भ में पढ़ें
पृष्ठ 46

38 UPAVANA VINODA
क्रीडारामं तु यः कुर्याद्द्रुमफलसंयुतम् ।
स गच्छेच्छंकरपुरं वसेत्तत्र युगत्रयम् ॥६ᵃ
एतत्सर्वं परिज्ञाय वृक्षारोपं समारभेत्ᵇ ।
धर्मार्थकाममोक्षाणां द्रुमेभ्यः साधनं यतः ॥७
यावद्दिनानि तुलसी रोपिता यद्गृहे वसेत् ।
तावद्वर्षसहस्राणि वैकुण्ठे स महीयते ॥८¹
यस्तु संरोपयेद्विल्वं शङ्करं प्रीतिकारकम् ।
तत्कुलेऽपिᶜ सदा लक्ष्मीः संतिष्ठेत्पुत्रपौत्रिकी ॥६
एवमेव हि योश्वत्थं रोपयेद्विधिना नरः ।
यत्र कुत्रापि वा स्थाने गच्छेत्सᵈ भवनं हरेः ॥१०
तेनेष्टा बहवो यज्ञास्तेन दत्ता वसुन्धरा ।
स सदा ब्रह्मचारी स्याद्येन धात्री प्ररोपिता ॥११
वटवृक्षद्वयं मर्त्यो रोपयेद्यो यथाविधि ।
शिवलोके वसेत्सोपि सेवितस्त्वप्सरोगणैःᵉ ॥१२
निम्बत्रयं समारोप्य नरो धर्मविचक्षणः ।
सूर्य्यलोकं समासाद्य वसेद्वब्दायुतत्रयम् ॥१३
चतुर्णां प्लक्षवृक्षाणां रोपणात्र संशयः ।
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥१४
पञ्चाम्रांश्चोपयेद्यस्तु मार्गेषूपवनेषु च ।
भूतानभविष्यान्युरुषांस्तारयेत्स चतुर्दᶠश ॥१५
(a) गणनाय—युगे युगे ।
(b) ,, वृक्षारामं समाचरेत् ।
(c) ,, तत्कुले हि
(d) ,, कुत्रापि चापन्नः स गच्छेद्भवनं
(e) ,, वटद्वयं हि यो मर्त्यो रोपयेच्च यथाविधि ।
शिवलोके वसन् सोऽपि सेवित etc. ॥
1 Cf. Matsya P. 59, 17—20.
Agni P. 70, 1—9.
Saṁyutta-Nikāya I, and Kṛiakāṇḍavāridhi.
2 Cf. Varāha P. Chap. on Gokārṇamāhātma.
Kṛiakāṇḍavāridhi, pp. 663—664.
Bṛhatsaṁhitā, Chap. 54.
Indian Arts, i, pp. 85—91.